________________
५४४]
[धर्मसंग्रहः-तृतीयोऽधिकार: "मूलुत्तरगुणसुद्धं, थीपसुपण्डगविवज्जिअं वसहिं । सेविज्ज सव्वकालं, विवज्जए हुंति दोसा उ" ॥१॥
__ [प.व. ७०६, प्र.सा. ८७४, य.दि. १९४] इति । एतदनुसारेण च चतुःशालादिष्वपि मूलोत्तरगुणविभागो विज्ञेयः, तदपेक्षयाऽत्र मूलोत्तरगुणविभागाऽभणनं तु स्वाध्यायव्याक्षेपपरिहारार्थम् , साधूनां प्रायो ग्रामादिष्वेव वासस्य सम्भवात् , तत्र च वसतेः पृष्ठवंशादियुक्ताया एव सत्त्वात् तादृशवसतीनां साक्षाद भणनमिति । उक्तं च - "चाउस्सालाईए, विण्णेओ एवमेव उ विभागो। इह मूलाइगुणाणं, सक्खा पुण सुण न जं भणिओ ॥१॥[प.व./७१०] विहरंताण य पायं, समत्तकज्जाण जेण गामेसु । वासो तेसु अ वसही, पिट्ठाइजुआ अओ तासिं" ॥२॥ [ प.व./७११] इति ।
ईदृशी च निर्दोषापि वसतिर्नगरग्रामादिक्षेत्रं वामपाश्वोपविष्टं पूर्वाभिमुखं दीर्घाकृताग्रिमैकपादं वृषभरूपं बुद्ध्या परिकल्प्य तत्प्रशस्तप्रदेशेषु ग्राह्या । यतः - "नगरागएसु घिप्पइ, वसही पुव्वामुहं ठविअ वसहं । वामकडीइ निविटुं, दीहीकयं अग्गिमिक्कपयं" ॥१॥[य.दि.१९५, प्र.सा.८७८ ] इति ।
अप्रशस्तप्रदेशेषु तु दु:खं सम्पद्यत इति ते वाः । तदुक्तम् - "सिंगक्खोडे कलहो, ठाणं पुण होइ नेव चलणेसुं ।
अहिठाणि पुट्ठरोगो, पुच्छंमि अ फेडणं जाण ॥१॥ मुहमूलंमि अ चारी, सिरे अ ककुए अ पूअसक्कारो । खंधे पिट्ठीइ भरो, पेटुंमि उ धायओ वसहो''।
[ओघ.नि.भा.७६-७७, बृह. १४९४-१४९५, प्रव.८७९-८८०] "सिंगक्खोड'त्ति शृङ्गप्रदेशे, 'चारित्ति भोजनसम्पत्तिः, 'भर'त्ति बहुसाधुसम्मर्दः, 'वसह'त्ति-वृषभकल्पना, गृहीतवसतिनिवासियतिजन इति । वसतिश्च साधूनां परमोपकारिणीति तद्दातुरपि महाफलम् । यतः"जो देइ उवस्सयं मुणिवराण तवनाणजोगधारीणं । तेणं दिण्णा विच्छिण्णपायसयणासणविकप्पा ॥१॥ [दा.मा.५०, श्रा.दि./१९८] जं तत्थ ठिआण भवे, सव्वेसिं तेण तेसिमुवओगो। रक्खपरिपालणा वि अ ओदिन्ना एव ते सव्वे ॥२॥[ ]
१. ताणं-इति पञ्चवस्तुके प्रवचनसारोद्धारवृत्तौ [भा० २५, १०९] च ।।
D:\new/d-3.pm5\3rd proof