________________
शय्याविशुद्धिः-श्लो० ९३॥]
[५४३ __ अथ शय्याविशुद्धिः प्रदर्श्यते-सा च विशुद्धिर्द्विधा-मूलगुणैरुत्तरगुणैश्चेति, तत्र पृष्ठवंशो गृहसंबन्धी मध्यवलकः द्वौ मूलधारणौ तिर्यक्स्थापितपृष्ठवंशस्याधारावित्यर्थः चतस्रो मूलवेलयः चतुर्पु पार्श्वेषु उभयोर्धारणयोरुभयतो द्विद्विवेलिसम्भवात् , एते च वसतेः सप्त मूलगुणास्तैर्गृहस्थेन स्वार्थकृतैः सद्भिर्वसतिर्मूलगुणैर्विशुद्धा भवति । यदुक्तम् -
"पिट्ठीवंसो दो धारणाओ, चत्तारि मूलवेलीओ। मूलगुणेहि विसुद्धा, साहूण अहागडा वसही" ॥१॥
[प.व. ७०७, प्र.सा. ८७१, तुला-बृह.क.भा. ५८२, य.दि. १९१] इति । उत्तरगुणाश्च–मूलोत्तरगुणा उत्तरोत्तरगुणाश्चेति द्विविधाः, तत्रोपरि तिर्यग्गता वंशास्तदुपरितनं कटादिभिः समन्ततः पार्वाणामाच्छादनं कम्बिकाबन्धनं दर्भादिच्छादनं लिम्पनं द्वारकरणं भूमीसमीकरणं चेति सप्त मूलोत्तरगुणास्तैश्च स्वार्थं कृतैर्मूलोत्तरगुणविशुद्धा भवति । तदुक्तम् –
"वंसगकडणुक्कंबण, छायणलेवणदुवारभूमी अ। परिकम्मविप्पमुक्का, एसा मलत्तरगणेस" ॥१॥
_[प.व. ७०८, प्र.सा. ८७२, य.दि. १९२, तुला बृ.क.भा. ५८३] एते चतुर्दशाप्यविशोधिकोटि:, उत्तरोत्तरगुणास्तु विशोधिकोटिस्ते च धूमितधूपितवासितोड्योतितबलिकृतावत्तसिक्तसंसृष्टरूपाः, तत्र धूमिता खट्यादिना धवलीकृता, धूपिताऽगुर्वादिभिः, वासिता पुष्पादिभिः, उद्द्योतिता प्रदीपजालिकादिभिः, बलिकृता कूरादिमोचनैः, अवत्ता छगणलेपनादिना, सिक्ता केवलोदकेन, संसृष्टा संमार्जन्या प्रमार्जिता, एतैरुत्तरोत्तरगुणैः संयतनिमित्तं कृतैर्विशोधिकोटिं गता वसतिः । यतः
"दूमिअधूमिअवासिअ, उज्जोइअ बलिकडा अवत्ता य । सित्ता संसट्ठा वि अ विसोहिकोडिं गया वसही" ॥१॥
__[प.व. ७०९, प्र.सा.८७३, य.दि. १९३] इति । एवं चोक्तदोषरहितां स्त्रीपशुपण्डकवर्जितां च वसति सेवेतेति तात्पर्यम् , उक्तं च
१. °धारिण्यौ-इति प्रवचनसारोद्धारटीकायाम् भा० २ प० १०७ ॥ २. पट्ठी० इति पञ्चवस्तुकप्रवचनसारोद्धारयोः ॥ ३. एसा उ-इति पञ्चवस्तुके। एसा हु-इति प्रवचनसारोद्धारे ॥ ४. 'दूमिया नाम सुकुमारलेपनेन कोमलीकृतकुड्या खटिकया धवलीकृतकुड्या च' इति प्रवचनसारोद्धारवृत्तौ भा० २ प० १०८ ॥ ५. सम्मृष्टा-इति प्रवचनसारोद्धारवृत्तौ भा० २ प० १०८ ।। ६. °धूविअ° इति प्रवचनसारोद्धारे ।। ७. संमट्टा-इति प्रवचनसारोद्धारे ।।
D:\new/d-3.pm53rd proof