________________
५४२ ]
तथा राजपिण्डस्त्वष्टविधो वर्ज्यः । यतः -
44
'असणाईआ चउरो, पाउंछणवत्थपत्तकंबलयं ।
पुरच्छिमाण वज्जो, अट्ठविहो रायपिंडो उ" ॥१॥ [ य.दि. / १९० ] इति । एवं चाहारशुद्धौ साधूनां नित्यमुपवास एव । यदुक्तम् –
‘“निरवजज्जाहारेणं, साहूणं निच्चमेव उववासो ।
देसूणपुव्वकोडिं, पालयंताण सामन्नं" ॥१॥ [ य.दि./१८२ ] इति । श्रमणधर्मे चाहारशुद्धिरतीव दुर्लभेति तत्र यतनीयम् । यतः -
44
'आहारे खलु सुद्धी, दुलहा समणाण समणधम्मंमी ।
ववहारे पुण सुद्धी, गिहिधम्मे दुक्करा भणिआ" ॥१॥[ य.दि./१८० ] इति । अथैवं विशुद्धं पिण्डं गृहीत्वा त्रिभिः कारणैस्तत्र बहिरपि प्रथमालिकां करोतीत्याज्ञा, कारणानि चोष्णकालः सङ्घाटकोऽसहिष्णुः क्षपकश्चेति । यतः –“सङ्घाटको सहिष्णुः क्षपकश्च” [ ] इति, यतः – “पुरिसे काले खवगे, पढमालिअ तीसु ठाणेसु” [ ओघनि. २५० ] त्ति, तत्र चायं विधिः - अप्राप्तायां भिक्षावेलायां पर्युषितान्नं गृहीत्वा जघन्यतस्त्रिभिरुत्कर्षतश्च पञ्चभिः कवलैभिक्षाभिर्वाऽन्यपात्रे एककरे वा कृत्वैकान्ते प्रथमालयति, गुर्वर्थं तु एकस्मिन् मात्रके भक्तं द्वितीये च संसक्तपानकं पूर्वमेव पृथक् कुर्यादिति । तत्रापि क्षेत्राद्यतिक्रान्तादिदूषणरहितमेव भोक्तव्यम्, न पुनस्तद्दोषरहितम्, तस्य यतीनामकल्प्यत्वात् । यदुक्तम् -
[ धर्मसंग्रहः - तृतीयोऽधिकारः
"जमणुग्गए रविंमि, अतावक्खित्तंमि गहिअ असणाइ ।
कप्पइ न तमुवभुत्तुं खित्ताईअं ति समओ त्ति ॥१॥ [ प्र.सा./८११ ] असणाई कप्पड़, कोसदुगब्धंतराउ आणेउं ।
परओ आणिज्जंतं, मग्गाईअं ति तमकप्पं ॥२॥ [ प्र.सा./८१२] पढमप्पहराणीअं, असणाइ जईण कप्पई भुत्तुं ।
जाव तिजा उडूं, तमकप्पं कालइक्कंतं" ॥३॥ [ प्र.सा./८१३]
इति प्रतिपादिता पिण्डविशुद्धिः, द्रवरूपं च जलमपि समयभाषया पिण्ड एव । यदुक्तम्
-
" पिंडो देहो भन्नइ, तस्स यऽवट्टंभकारणं दव्वं ।
एगमणेगं पिंडं, समयपसिद्धं विआणाहि" ॥१॥ [ य.दि./१८५ ] त्ति इति ।
D:\new/d-3.pm5\3rd proof
१. P. C. यति० । हि मु० ॥ २. खमणे - इति ओघनिर्युक्तौ । 'खवणत्ति कदाचित्क्षपको भवति कदाचिदक्षपको वा' इति तत्रैव वृत्तौ ॥ ३. मे मा) मु० ॥