________________
पिण्डविशुद्धिः, शय्यातरस्वरूपम् - श्लो० ९३॥]
तृणडगलादिश्च शय्यातरस्यापि कल्पते । तदुक्तम् -
-
"असणाईआ चउरो, पाउंछणवत्थपत्तकंबलयं ।
सूई छुरि कन्नसोहण नहरणिआ सागरिअपिंडो" ॥१॥[ य.दि./१८६ ] इति ।
[ ५४१
“तणडगलछारमल्लगसिज्जासंथारपीढलेवाई | सिज्जायरपिंडो सो, न होइ सेहो वि सोवहिओ " ॥ १ ॥
[ बृहत्कल्पभा० ३५३५, निशीथभा० ११५४, यतिदिनचर्या १८७] इति । सार्थादिवशाच्चैकत्र सुप्त्वाऽन्यत्र प्रतिक्रामन्ति तदा द्वयोरपि स्वामिनौ शय्यातरौ स्तः, यदा च सकलां रात्रि जागरित्वा सार्थवशाच्चौरादिभयाद्वाऽन्यत्र गत्वा प्रतिक्रामन्ति तदा मूलवसतिस्वामी शय्यातरो भवतीति विवेकः । यद्यपि च वसतिस्वामी साधूनां वसतिं दत्त्वा दूरदेशान्तरं गतस्तथापि शय्यातरः स एव भवति नान्यः । तदुक्तम्‘“दाऊण गेहं तु संभज्ज(पुत्त ) दारो, वाणिज्जमाईहि उ कारणेहिं ।
तं चेव अन्नं च वइज्ज देस, सिज्जायरो तत्थ स एव होइ" ॥१॥ [ निशीथभाष्ये ११९३, प्रवचनसारोद्धारे ८०४] इति । किञ्च –लिङ्गमात्रस्थः शय्यातरपिण्डं त्यजतु मा वा, परं चारित्रिण इव तस्यापि शय्यातरं साधुस्तु वर्जयत्येव । तदुक्तम् -
“लिंगत्थस्स वि वज्जो, तं परिहरतु व भुंजओ वा वि ।
-
अत्तविरसावणो तत्थ दिट्टंतो" ॥१॥ [ प्र.सा./८०५ ] इति । कालमानं च –अस्या अहोरात्रं परतस्त्वशय्यातरो भवति, यदुक्तम् –“पुच्छे वज्जेज्जऽहोरत्तं'' [ ] ति, ग्लानत्वादिगाढकारणे तु शय्यातरपिण्डोऽपि गृह्यते । तथा चोक्तं प्रवचनसारोद्धारवृत्तौ -
44
'अनागाढे ग्लानत्वे वारत्रयं हिण्डनेऽपि ग्लानयोग्यद्रव्याप्राप्तौ तत्पिण्डो गृह्यते, आगाढे तु शीघ्रमपि, तथा शय्यातरेणात्याग्रहेण निमन्त्रिते सकृद् गृहीत्वा पुनः प्रसङ्गान्निवार्यते, तथा आचार्यादिप्रायोग्ये क्षीरादिद्रव्येऽन्यत्र दुर्लभे तथाऽशिवेऽवमौदर्ये राजचौरादिभये वा तत्पिण्डो गृह्यते " [ प्र.सा./८०८वृ.] इति ।
१. सपुत्त' इति प्रवचनसारोद्धारे । २. ओ - इति प्रवचनसारोद्धारे || ३. वुत्थे - इति प्रवचनसारोद्धारवृत्तौ भा० २ ० ५५ ॥ ४ द्वितीयखण्डे ५६ तमपत्रे द्रष्टव्यम् ॥
D:\new/d-3.pm5\3rd proof