________________
५४०]
[धर्मसंग्रहः-तृतीयोऽधिकारः "अस्सिं खलु पडिग्गहिअंसि अप्पे पच्छाकम्मे अप्पे पज्जवजाए'' [ २।१।६२ ] त्ति अत्र च पृथुकादिर्गृहीतः, तथा चाल्पं पर्यायजातम् अल्पं तुषादि त्यजनीयमित्यर्थः ।।
तथा भोजनसमये शरावादिषु निक्षिप्तं भोक्तुकामस्य ढौकितं तद्गृह्णतो यतेरव
गृहीता भिक्षा ५।
तथा भोजनसमये भोक्तुमुपविष्टाय परिवेषितुं परिवेषकेण स्थाल्यादेरुद्धृत्य चट्टकादिना उत्क्षिप्तं परेण च न गृहीतं प्रव्रजिताय च दापितं यद्वा भोक्त्रा स्वयं भोक्तुं स्वकरेण यद् गृहीतमशनादि तद् गृह्णतः प्रगृहीता भिक्षा ६।
तथा त्यागाहँ भक्तं गृह्णतो यतेरुज्झितधर्मा सप्तमी ७।
आसु च सप्तस्वपि संसृष्टाद्यष्टभङ्गी भणनीया, परं चतुर्थ्यां नानात्वम् , तस्या अलेपत्वात्संसृष्टाद्यभाव इति सप्त पिण्डैषणाः, पिण्डशब्देनात्र भक्तमुच्यते । पानैषणानां पृथक्कथनात् ता अपीत्थमेव, नवरं चतुर्थ्यां भेदः, सौवीरावश्रावणोष्णोदकतन्दुलोदकादि अलेपकृत् , शेषमिक्षुरसद्राक्षापानाम्लिकादि तु लेपकृदिति । यदुक्तम् – "पाणेसणा वि एवं, नवरि चउत्थीइ होइ नाणत्तं ।
सोवीरायामाई, जलऽलेवाडंति समओ त्ति" ॥१॥[प्र.सा./७४४] उक्तजलाभावे च वर्णान्तरादिप्राप्तम् प्रासुकजलमपि ग्राह्यम् । तदुक्तं दिनचर्यायाम् - "गिण्हिज्ज आरनालं, अहवा धोवण तिदंडउक्कालिअं।
वन्नंतराडपत्तं. फासअसलिलं पितयभावे"॥२॥य.दि./२२४] इति पानैषणाः ।
एवंविधश्च शुद्धोऽपि पिण्ड: शय्यातरसम्बन्धी न ग्राह्यः, तत्र शय्या -वसतिस्तया साधुसमर्पितया तरतीति शय्यातरो -वसतिस्वामी, स च द्विधा -प्रभुः प्रभुसंदिष्टश्च, एकैकोऽपि एकानेकभेदाद् द्विधा, तथा चैक: प्रभुरेकः प्रभुसंदिष्टः १, एकः प्रभुरनेक: संदिष्टः २, अनेक: प्रभुरेक: संदिष्टः ३, अनेकः प्रभुरनेक: संदिष्टश्च ४ इति चतुर्भङ्गी भवति, तत्रोत्सर्गतः सर्वेऽपि शय्यातरा द्वादशविधपिण्डग्रहणे वाः, अपवादतस्तु असंस्तरणे प्रतिदिनमेकैको वर्व्यः । यतः - "सागारिअ संदिवो एगमणेगे चउक्कभयणा उ। एगमणेगे वज्जा णेगेसु अ ठावए एगं" ॥१॥
[निशीथभाष्ये ११४५, बृहत्कल्पभाष्ये ३५२६, प्रवचनसारोद्धारे ८०१] इति । द्वादशविधस्तु अशन १ पान २ खादिम ३ स्वादिम ४ पादप्रोञ्छन ५ वस्त्र ६ पात्र ७ कम्बल ८ सूची ९ छुरिका १० कर्णशोधन ११ नखरदनिका १२ लक्षणः । यतः
१. समयु त्ति- इति प्रवचनसारोद्धारे ॥ २. ढे-इति प्रवचनसारोद्धारे ॥ ३. “गा-इति प्रवचनसारोद्धारे॥
D:\new/d-3.pm5\3rd proof