________________
ग्रहणैषणायां द्वाराणि - श्लो० ९३ ॥ ]
[ ५३९
हस्ततलं प्रम्लानं भवति, रेखास्त्वनुद्वानाः, तत्र शुष्कहस्तस्थानानामेकैकवृद्ध्या यथा यस्मिन् काले ग्रहणं भवति तथोच्यते । तरुण्याः स्त्रिय उन्नतसप्तमैकभागे प्रम्लाने सति उष्णकाले भिक्षा गृह्यते, यतः हस्तस्य सोष्मतया कालस्य चोष्णतया यावतोन्नतप्रदेशः शुष्यति तावता निम्नप्रदेशाः सार्द्रा अपि अचित्ता जायन्तेऽतः कल्पते भिक्षाग्रहणम्, हेमन्ते च तस्या एव द्वयोः सप्तमभागयोः शुष्कयोभिक्षाग्रहणं भवति, वर्षासु पुनस्त्रिषु भागेषु, मध्यमायाः स्त्रियो द्वयोर्भागयोरारब्धं चतुर्षु भागेषु संनितिष्ठते, स्थविर्याश्च त्रिषु भागेषु प्रारब्धं पञ्चसु संनितिष्ठते । एवं सामान्येन त्रिविधपुरुषस्य द्वयोर्भागयोरारब्धं षट्सु भागेषु संनितिष्ठते । तत्र तरुणस्य ग्रीष्मादिषु क्रमेण द्वित्रिचतुर्षु भागेषु शुष्केषु ग्रहणम्, मध्यमस्य त्रिचतुष्पञ्चसु स्थविरस्य च चतुष्पञ्चषट्सु इति । नपुंसकस्य पुनस्त्रिभागेषु प्रारब्धं सप्तभागेषु संनितिष्ठते, तत्र तरुणस्य ग्रीष्मादिषु क्रमात् त्रिचतुष्पञ्चसु भागेषु शुष्केषु ग्रहणं भवति, मध्यमस्य चतुष्पञ्चषट्सु स्थविरस्य तु पञ्चषट्सप्तसु सर्वस्मिन् हस्ते शुष्के ग्रहणमित्यर्थः १० ।
अथ भावद्वारं—भावश्चाध्यवसायः, स चाहारग्रहेऽप्रशस्तो न कार्यः, प्रशस्तश्च कार्यः। तत्राप्रशस्तो भावस्तस्य भवति यो वर्णबलादिनिमित्तमाहारं गृह्णाति, नत्वाचार्यबालवृद्धग्लानाद्यर्थम्, यस्तु आचार्याद्यर्थं गृह्णाति स ज्ञानादिभागी महाभाग उच्यते ११ । इति विचारितैकादशभिद्वारैर्ग्रहणैषणा ।
सा च पिण्डविषया पानविषया च प्रत्येकं सप्तविधा भवति, तद्यथा - असंसृष्टा संसृष्टा उद्धृता अल्पलेपा अवगृहीता प्रगृहीता उज्झितधर्मा चेति । यतः –
44
“संसट्ट १ मसंसट्टा २, उद्धड ३ तह अप्पलेविया ४ चेव ।
उग्गहिआ ५ पग्गहिआ ६, उज्झिअधम्मा ७ उ सत्तमिआ " ॥१॥ [ प्र.सा./७३९] एताः सप्त पिण्डैषणाः, पिण्डस्य - भक्तस्यैषणाः - ग्रहणप्रकाराः, तत्रासंसृष्टो हस्तोऽसंसृष्टं च मात्रं द्रव्यं पुनः सावशेषं निरवशेषं वेत्यसंसृष्टा भिक्षा, तत्र निरवशेषे पश्चात्कर्मसंभवेऽपि गच्छस्य बालाद्याकुलत्वात् तन्निषेधो नास्ति, अत एव सूत्रे तच्चिन्ता न कृता १ ।
तथा संसृष्टो हस्तो मात्रमपि संसृष्टमिति संसृष्टा भिक्षा, अत्र च संसृष्टा - संसृष्टसावशेषैर्द्रव्यैरष्टौ भङ्गास्तेषु चाष्टमो भङ्गः संसृष्टो हस्तः पात्रं च सावशेषं द्रव्यमित्येष गच्छनिर्गतानामपि कल्पते, शेषास्तु गच्छान्तर्गतानां सूत्रार्थहान्यादिकं कारणमाश्रित्य कल्पन्त इति २।
तथा स्वव्यापारेण मूलभाजनाद्भाजनान्तरे भक्तमुद्धृतम्, तच्च साधोर्गृह्णत उद्धृता भिक्षा भवति ३ |
तथाऽल्पलेपा –वल्लचनकादि अल्पशब्दस्याभावपरत्वादलेपा नीरसेत्यर्थः, यद्वा स्तोको लेपः पश्चात्कर्मादिजनितः कर्मबन्धो यस्यां सा अल्पलेपा, तथा चाचाराङ्गम् –
D:\new/d-3.pm5\3rd proof