SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वभेदा:-श्लो० २२॥] [५७ आन्तर्मुहूर्तिकं सम्यग्दर्शनं प्राप्नुवन्ति यत् । निसर्गहेतुकमिदं, सम्यक्श्रद्धानमुच्यते ॥१०॥ [ यो.शा.१/१७ वृत्तौ ] गुरूपदेशमालम्ब्य, सर्वेषामपि देहिनाम् । यत्तु सम्यक्श्रद्धानं तत् , स्यादधिगमजं परम् ॥११॥ [यो.शा.१/१७ वृत्तौ] यमप्रशमजीवातुर्बीजं ज्ञानचरित्रयोः । हेतुस्तपःश्रुतादीनां, सद्दर्शनमुदीरितम् ॥१२॥ [ यो.शा.१/१७ वृत्तौ] श्लाघ्यं हि चरणज्ञानविमुक्तमपि दर्शनम् । न पुनर्ज्ञानचारित्रे, मिथ्यात्वविषदूषिते ॥१३॥ [ यो.शा.१/१७ वृत्तौ] ज्ञानचारित्रहीनोऽपि, श्रूयते श्रेणिकः किल । सम्यग्दर्शनमाहात्म्यात् , तीर्थकृत्त्वं प्रपत्स्यते" ॥१४॥ [यो.शा.१/१७ वृत्तौ ] इति ।। अत्राह -मिथ्यात्वमोहनीयकर्मक्षयोपशमादेरिदं भवति, कथमुच्यते निसर्गादधिगमाद्वा तज्जायत इति? । अत्रोच्यते स एव क्षयोपशमादिनिसर्गाधिगमजन्मेति न दोषः । उक्तं च"ऊसरदेसं दड्डिल्लयं च, विज्झाइ वणदवो पप्प । इयमिच्छस्साणुदए, उवसमसम्मं लहइ जीवो ॥१॥ [विशे.भा./गा.२७३४] जीवादीणमधिगमो, मिच्छत्तस्स उखओवसमभावे । अधिगमसंमं जीवो, पावेइ विसुद्धपरिणामो" ॥२॥[ ] त्ति । कृतं प्रसङ्गेन । तच्च कतिविधं भवति ? इत्याह –'पञ्चधा' इति' पञ्चप्रकारं स्यात् तद्यथा –औपशमिकम् १ क्षायिकम् २ क्षायोपशमिकम् ३ वेदकम् ४ सास्वादनं ५ चेति । तत्रौपशमिकं भस्मच्छन्नाग्निवत् मिथ्यात्वमोहनीयस्यानन्तानुबन्धिनां च क्रोधमानमायालोभानामनुदयावस्था उपशमः (स) प्रयोजनं प्रवर्तकमस्य औपशमिकम् , तच्चानादिमिथ्यादृष्टेः करणत्रयपूर्वकमान्तर्मुहूर्तिकम् , चतुर्गतिकस्यापि संज्ञिपर्याप्तपञ्चेन्द्रियस्य जन्तोर्ग्रन्थिभेदानन्तरं भवतीत्युक्तप्रायम् , यद्वा उपशमश्रेण्यारूढस्य भवति । यदाह - "उवसमसेढिगयस्स उ, होइ उवसामिअंतु सम्मत्तं । जो वा अकयतिपुंजो, अखविअमिच्छो लहइ सम्मं" ॥१॥[विशे.भा./२७३५ ] ति । ___ ग्रन्थिप्रदेशं यावत्तु अभव्योऽपि सङ्ख्येयमसङ्ख्येयं वा कालं तिष्ठति । तत्र स्थितश्चाभव्यो द्रव्यश्रुतं भिन्नानि दशपूर्वाणि यावल्लभते, जिद्धिदर्शनात् स्वर्गसुखार्थित्वादेव दीक्षाग्रहणे तत्सम्भवात् । अत एव भिन्नदशपूर्वान्तं श्रुतं मिथ्याश्रुतमपि स्यादित्यन्यदेतत् । १. ०वियुक्तमपि-इति योगशास्त्रवृत्तौ ॥ २. (स)उपशमः-मु० ॥ ३. ० भेदा(द)नन्तर-मु० ॥ ४. L.P.I श्रुतं मि(थ्याश्रुतं)स्यादित्यन्यदेतत्-मु० ॥ D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy