________________
५८]
[धर्मसंग्रहः-द्वितीयोऽधिकारः ____ अत्र च प्रसङ्गतः कश्चिद्विशेषो विशेषज्ञानार्थं दर्श्यते । यथाऽन्तरकरणाद्यसमय एवौपशमिकसम्यक्त्ववान् , तेन चौषधविशेषकल्पेन शोधितस्य मदनकोद्रवकल्पस्य मिथ्यात्वस्य शुद्धार्द्धशुद्धाशुद्वरूपपुञ्जत्रयमसौ करोत्येव । अत एवौपशमिकसम्यक्त्वाच्च्युतोऽसौ क्षायोपशमिकसम्यग्दृष्टिमिश्रो मिथ्यादृष्टियं भवति । उक्तं च - "कम्मग्गंथेसु धुवं, पढमोवसमो करेइ पुंजतिअं । तव्वडिओ पुण गच्छइ, सम्मे मीसंमि मिच्छे वा" ॥[ ]
इदं च कार्मग्रन्थिकमतम् । सैद्धान्तिकमतं त्वेवं -यदुतानादिमिथ्यादृष्टिः कोऽपि तथाविधसामग्रीसद्भावेऽपूर्वकरणेन पुञ्जत्रयं कृत्वा शुद्धपुद्गलान् वेदयन्नौपशमिकसम्यक्त्वमलब्ध्वैव प्रथमत एव क्षायोपशमिकसम्यग्दृष्टिर्भवति, अन्यस्त यथाप्रवृत्त्यादिकरणत्रयक्रमेणान्तरकरणे औपशमिकसम्यक्त्वं लभते । पुञ्जत्रयं त्वसौ न करोत्येव । ततश्चौपशमिकसम्यक्त्वच्युतोऽवश्यं मिथ्यात्वमेव याति । उक्तं च कल्पभाष्ये - "आलंबणमलहंती, जह सट्ठाणं न मुंचए इलिआ। एवं अकयतिपुंजी, मिच्छं चिअ उवसमी एइ" ॥१॥[क.भा.गा. १२०/सं.प्र. गा.११]
"प्रथमं च सम्यक्त्वे लभ्यमाने कश्चित् सम्यक्त्वेन समं देशविरतिं सर्वविरतिं वा प्रतिपद्यते । उक्तं च शतकबृहच्चूर्णी -
"उँवसमसम्मट्ठिी अंतरकरणे ठिओ कोई देसविरई पि लहेइ, कोई पमत्तापमत्तभावं पि, सासायणो पुण न किं पि लहेइ" । [श.बृ.चू.] त्ति ।
पुञ्जत्रयसंक्रमश्च कल्पभाष्ये एवमुक्तः-मिथ्यात्वदलिकात् पुद्गलानाकृष्य सम्यग्दृष्टिः प्रवर्द्धमानपरिणामः सम्यक्त्वे मिश्रे च संक्रमयति । मिश्रपुद्गलांश्च सम्यग्दृष्टिः सम्यक्त्वे, मिथ्यादृष्टिश्च मिथ्यात्वे । सम्यक्त्वपुद्गलांस्तु मिथ्यात्वे संक्रमयति, न तु मिश्रे । "मिच्छत्तंमि अखीणे, तिपुंजिणो सम्मद्दिट्ठिणो णियमा । खीणमि उ मिच्छत्ते, दुएगपुंजी व खवगो वा ॥१॥ [ बृ.क.भा./गा.११७]
मिथ्यात्वेऽक्षीणे सम्यग्दृष्टयो नियमात् त्रिपुञ्जिनः, मिथ्यात्वे क्षीणे द्विपुञ्जिनः, मिश्रे क्षीणे एकपुञ्जिनः, सम्यक्त्वे तु क्षीणे क्षपकः । सम्यक्त्वपुद्गलाश्च शोधितमदनकोद्रवस्थानीया विरुद्धतैलादिद्रव्यकल्पेन कुतीर्थिकसंसर्गकुशास्त्रश्रवणादिमिथ्यात्वेन मिश्रिताः सन्त
१. दृश्य(दर्श्य)ते-मु० । दृश्यते-P.C. I दर्श्यते-L || २. तुला-श्राद्धप्रतिक्रमणवृत्तिः प० २५ ॥ ३. तुला-सम्बोधप्रकरणसम्यक्त्वाधिकारे गा० १२ ।।
D:\new/d-1.pm53rd proof