________________
सम्यक्त्वस्वरूपम् - श्लो० २१॥ ]
[ ५५
इदं च लक्षणममनस्केषु सिद्धादिष्वपि व्यापकम् । इत्थं च सम्यक्त्वे सत्येव यथोक्तं श्रद्धानं भवति । यथोक्त श्रद्धाने च सति सम्यक्त्वं भवत्येवेति श्रद्धानवतां सम्यक्त्वस्यावश्यम्भावित्वोपदर्शनाय कार्ये कारणोपचारं कृत्वा तत्त्वेषु रुचिरित्यस्य तत्त्वार्थश्रद्धानमित्यर्थपर्यवसानं न दोषाय । तथा चोक्तम् -
"जीवाइ नव पयत्थे, जो जाणइ तस्स होई संमत्तं ।
भावेण सद्दहंते, अयाणमाणे वि सम्मत्तं " ॥१॥ [ नव.प्र./गा. ५१ ] ति ।
नन्वेमपि शास्त्रान्तरे तत्त्वत्रयाध्यवसायः सम्यक्त्वमित्युक्तम् । यतः -
44
'अरिहं देवो गुरुणो, सुसाहुणो जिणमयं पमाणं च ।
इच्चाइ सुहो भावो, सम्मत्तं बिंति जगगुरुणो ॥ १ ॥ [ सं.प्र.स./गा.३४ ] त्ति । कथं न शास्त्रान्तरविरोधः ? इति चेत् ? न, अत्र प्रकरणे जिनोक्तत्त्वेषु रुचिरिति यतिश्रावकाणां साधारणं सम्यक्त्वलक्षणमुक्तम्, शास्त्रान्तरे तु गृहस्थानां देव - गुरु- धर्मेषु पूज्यत्वोपास्यत्वानुष्ठेयत्वलक्षणोपयोगवशाद् देवगुरुधर्मतत्त्वप्रतिपत्तिलक्षणं सम्यक्त्वं प्रतिपादितम् । तत्रापि देवा गुरुवश्च जीवतत्त्वे, धर्मः शुभाश्रवे संवरे चान्तर्भवतीति न शास्त्रान्तरविरोधः । सम्यक्त्वं चार्हद्धर्मस्य मूलभूतं यतो द्विविधं त्रिविधेनेत्यादिप्रतिपत्त्या श्राद्धद्वादशव्रतीं सम्यक्त्वोत्तरगुणरूपभेदद्वययुतामाश्रित्य त्रयोदश कोटिशतानि चतुरशीतिकोट्यः सप्तविंशतिः सहस्राणि द्वे शते च द्वयुत्तरे भङ्गाः स्युः । एषु च केवलं सम्यक्त्वं विना च नैकस्यापि भङ्गस्य संभव:, अत एव 'मूलं दारमित्यादि' षड्भावना वक्ष्यमाणा युक्ता एवेति । एतत्फलं चैवमाहुः
-
'अंतोमुहुत्तमित्तं पि, फासिअं हुज्ज जेहिं सम्मत्तं ।
तेसिं अवड्डपुगलपरिअट्टो चेव संसारो ॥१॥ [ न.प्र./गा. ५३,सं.प्र.स./गा.२४]
सम्मद्दिट्ठी जीवो, गच्छइ नियमा विमाणवासीसु ।
जइ न विगयसम्मत्तो, अहव न बद्धाउओ पुवि ॥२॥ [ सं.प्र.स./गा.३५ ]
१. तत्त्वत्रयाध्ययन (ध्यव) साय: मु० । तत्त्वत्रयाध्ययनसाय - C ॥ २. ०तो० इति नवतत्त्व
प्र० । ३. (इति) मु० । इति - C नास्ति ॥ ४. द्विविध - P. L ॥ ५. सहस्रा -C.P.L. ॥ ६. (केवलं)मु० । एषु च केवलं सम्यक्त्वं प्रथमो भङ्गः सम्यक्त्वं विना.... इति श्राद्धप्रतिक्रमणवृत्तौ प० ९ ॥ ७. एतस्य फलं-मु० । एतस्य च फलं -C ॥ ८. चइयसम्मत्तो - इति सम्बोधप्रकरणे ॥ ९. पुव्वि पि- P. L. ॥
D:\new/d-1.pm5\3rd proof