SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽधिकारः॥ प्रथमः खण्डः ॥ अथ विशेषतो गृहिधर्मव्याख्यानावसरः, स च सम्यक्त्वमूलक इति प्रथमं सम्यक्त्वं प्रस्तूय तदेव लक्षयति - न्याय्यश्च सति सम्यक्त्वेऽणुव्रतप्रमुखग्रहः । जिनोक्ततत्त्वेषु रुचिः, शुद्धा सम्यक्त्वमुच्यते ॥२१॥ 'सति' विद्यमाने 'सम्यक्त्वे' सम्यग्दर्शने चकारोऽत्रैवकारार्थो भिन्नक्रमश्च, ततः सम्यक्त्वे सत्येवेत्यर्थो लभ्यते । अणुव्रत-गुणव्रत-शिक्षाव्रतानां ग्रहोऽभ्युपगमो 'न्याय्यः' उपपन्नः, न त्वन्यथा सम्यक्त्वेऽसति निष्फलत्वप्रसङ्गात् । यथोक्तम् - "शस्यानीवोषरक्षेत्रे, निक्षिप्तानि कदाचन । न व्रतानि प्ररोहन्ति, जीवे मिथ्यात्ववासिते ॥१॥[ ] संयमा नियमाः सर्वे, नाश्यन्ते तेन पावनाः । क्षयकालानलेनेव, पादपाः फलशालिनः ॥२॥[ ] इति सम्यक्त्वमेव दर्शयति –'जिनोक्त' इत्यादि जिनोक्तेषु तत्त्वेषु जीवाजीवादिपदार्थेषु या शुद्धा' अज्ञानसंशयविपर्यासनिराकरणेन निर्मला 'रुचिः' श्रद्धानं सा 'सम्यक्त्वमुच्यते' जिनैरितिशेषः । तद्विशेषतो गृहिधर्म इति पूर्वप्रतिज्ञातं सर्वत्र योज्यम् । ग्रं० १००० । नन्वित्थं तत्त्वार्थश्रद्धानं सम्यक्त्वमिति पर्यवसन्नम् , तत्र श्रद्धानं च तथेतिप्रत्ययः, स च मानसोऽभिलाषो, न चायमपर्याप्तकाद्यवस्थायामिष्यते, सम्यक्त्वं तु तस्यामपीष्टम् , षट्षष्टिसागरोपमरूपायाः साद्यपर्यवसितकालरूपायाश्च तस्योत्कृष्टस्थितेः प्रतिपादनादिति कथं नागमविरोध: ? इत्यत्रोच्यते –तत्त्वार्थश्रद्धानं सम्यक्त्वस्य कार्यम् , सम्यक्त्वं तु मिथ्यात्वक्षयोपशमादिजन्यः शुभ आत्मपरिणामविशेषः । आह च - "से अ संमत्ते पसत्थसंमत्तमोहणीअकम्माणुवेअणोवसमखयसमुत्थे पसमसंवेगाइलिंगे सुहे आयपरिणामे पण्णत्ते"।[आवश्यकसूत्रे ६।३६, सम्यक्त्वाधिकारः] १. साम्प्रतं विशेषतो-मु० C । अथ P.L. |॥ २. तुला-श्राद्धप्रतिक्रमणवृत्तिः प०८तः ॥ D:\new/d-1.pm53rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy