SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ धर्माधिकारिणः-श्लो० २०॥] [५३ इत्यादिभिरसाधारणैः श्रावकशब्दप्रवृत्तिहेतुभिरधिकारित्वमुक्तम् । यतिधर्माधिकारिणोऽप्येवं तत्प्रस्तावे वक्ष्यमाणा यथा - "पव्वज्जाए अरिहा, आरिअदेसंमि जे समुप्पन्ना। जाइकुलेहिं विसिट्ठा, तह खीणप्पायकम्ममला ॥१॥[पञ्चव./गा. ३२] तत्तो अ विमलबुद्धी, दुलहं मणअत्तणं भवसमुहे। जम्मो मरणनिमित्तं, चवलाओ संपयाओ अ ॥२॥[ पञ्चव./गा. ३३] विसया य दक्खहेऊ. संजोगे निअमओ विओग ति।। पइसमयमेव मरणं, इत्थ विवागो अ अइरुद्दो ॥३॥[पञ्चव./गा. ३४] एवं पयईए च्चिअ, अवगयसंसारनिग्गुणसहावा । तत्तो अ तव्विरत्ता, पयणुकसायप्पहासा य ४॥ [ पञ्चव./गा. ३५] सुकयन्नुआ विणीआ, रायाईणमविरुद्धकारी अ। कल्लाणंगा सड्ढा, धीरा तह समुवसंपन्ना ॥५॥ [ पञ्चव./गा. ३६ ] इति पृथक् पृथक् प्रतिपादितास्तथाप्येभिरेकविंशत्या गुणैः कतमधर्मस्याधिकारित्वमिति न व्यामोह: कार्यः, यत एतानि सर्वाण्यपि शास्त्रान्तरीयाणि लक्षणानि प्रायेण तत्तद्गुणस्याङ्गभूतानि वर्तन्ते । चित्रस्य वर्णकशुद्धिविचित्रवर्णतारेखाशुद्धिनानाभावप्रतीतिवत् । प्रकृतगुणाः पुनः सर्वधर्माणां साधारणभूमिकेव चित्रकराणामिति सूक्ष्मबुद्ध्या परिभावनीयम् । यदुक्तम् - दुविहं पि धम्मरयणं, तर नरो घित्तुमविगलं सो उ। जस्सेगवीसगुणरयणसंपया होइ सुत्थि त्ति ॥१॥[ध.र./१४०] ते च सर्वेऽपि गुणाः प्रकृते संविग्नादिविशेषणपदैरेव संगृहीता इति सद्धर्मग्रहणार्ह उक्तः ॥२०॥ इतिपरमगुरुभट्टारकश्रीविजयानन्दसूरिशिष्यपण्डितश्रीशान्तिविजयगणिचरणसेवि महोपाध्यायमानविजयगणिविरचितायां स्वोपज्ञधर्मसङ्ग्रहवृत्तौ सामान्यतो गृहिधर्मव्यावर्णनो नाम प्रथमोऽधिकारः ॥ ॥ इति प्रथमोऽधिकारः ॥ १. परि० मु० नास्ति ।। २. L.C.P. मूल । चरणसेव्युपाध्यायश्रीमान-P संशो० ॥ D:\new/d-1.pm53rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy