________________
५२]
[धर्मसंग्रहः-प्रथमाधिकारः विशेषज्ञोऽपक्षपातित्वेन गुण-दोषविशेषवेदी १६।। वृद्धानुगः परिणतमतिपुरुषसेवकः १७ विनीतो गुणाधिकेषु गौरवकृत् १८। कृतज्ञः परोपकाराविस्मारक: १९।
परहितार्थकारी निरीह: सन् परार्थकृत् , सुदाक्षिण्यो हि अभ्यर्थित एव परोपकारं करोत्ययं पुनः स्वत एव परहितरत इति विशेषः २०।
तह चेव त्ति तथाशब्दः प्रकारार्थश्चः समुच्चये, एवोऽवधारणे । ततश्च यथैते विंशतिस्तथैव तेन प्रकारेण, लब्धलक्ष्यश्च धर्माधिकारीति पदयोगः । पदार्थस्तु लब्ध इव प्राप्त इव लक्ष्यो लक्षणीयो धर्मानुष्ठानव्यवहारो येन स लब्धलक्ष्यः सशिक्षणीयः २१ ।
इत्येकविंशत्या गुणैः संपन्नो धर्मरत्नयोग्य इति योजितमेव ।
अत्राह -ननु किमेकान्तेनैतावद्गुणसंपन्ना धर्माधिकारिण उतापवादोऽप्यस्ति ? इति प्रश्ने सत्याह
"पायद्धगुणविहीणा, एएसिं मज्झिमाऽवरा णेआ।
इत्तो परेण हीणा, दरिद्दपाया मुणेअव्वा" ॥१॥[ध.र./गा. ३०] इहाधिकारिण उत्तमा मध्यमा हीनाश्चेति त्रिधा, तत्रोत्तमाः संपूर्णगुणा एव । पादश्चतुर्थांशस्तत्प्रमाणैर्गुणैर्ये विहीनास्ते मध्यमाः । अर्द्धप्रमाणगुणहीनाश्च जघन्याः । अर्धादप्यधिकै ना नरा दरिद्रा धर्मरत्नस्यायोग्या इत्यर्थः ।
अत्र च यद्यपि श्रावकयतिधर्मभेदाद् धर्मो द्विधा, श्रावकधर्मोऽपि अविरत-विरतश्रावकधर्मभेदाद् विधा । तत्राविरतश्रावकधर्मस्य पूर्वसूरिभिः -
"तत्थहिगारी अत्थी, समत्थओ जो न सुत्तपडिकुट्ठो ।
अत्थी उ जो विणीओ, समुट्ठिओ पुच्छमाणो अ॥१॥[श्रा.ध.वि./गा. ४] इत्यादिनाऽधिकारी निरूपितः । विरतश्रावकधर्मस्य -
"संपत्तदंसणाई, पइदिअहं जइजणा सुणेइ अ।
सामायारिं परमं, जो खलु तं सावयं बिंति ॥१॥ [सं.प्र./गा. ९६१] तथा-"परलोगहिअंध(स )म्मं, जो जिणवयणं सुणेइ उवउत्तो।
अइतिव्वकम्मविगमा,उक्कोसोसावगोइत्थ॥१॥[ पञ्चा.१।२,श्रा.ध.वि./२]
१. ०विंशत्या० C.P.L. I विंशति० मु० । एकविंशतिभिर्गुणैः-इति धर्मरत्नप्र० स्वोपज्ञवृत्तौ । २. परलोगहिअध(अंस)म्म-मु० । परलोगहिअं धम्म-P.L.C. । परलोगहिअं सम्म-इति पञ्चाशकश्रावकधर्मविधिग्रन्थयोः ॥
D:\new/d-1.pm5\3rd proof