________________
धर्मदेशनाप्रदानविधि:-श्लो० १९॥]
[४९ दर्शनाचारवारिपूरप्रक्षालितशङ्कादिपङ्कतया प्रकर्षप्राप्तिलक्षणायाः सम्यग्दर्शनसत्कायाः सकाशात् किम् ? इत्याह –'चारित्रं' सर्वसावद्ययोगपरिहारनिरवद्ययोगसमाचाररूपं संपद्यते । शुद्धसम्यक्त्वस्यैव चारित्ररूपत्वात् । तथा चाचारसूत्रम्"जं मोणंति पासहा, तं संमंति पासहा । जं संमंति पासहा, तं मोणंति पासह त्ति" [आचा.१।५।३ सू० १५५] ।
"भावनातो रागादिक्षय इति''[ सू० १३१] भाव्यन्ते मुमुक्षुभिरभ्यस्यन्ते निरन्तरमेव ता इति भावनास्ताश्चानित्यत्वाऽशरणत्वादयो द्वादश । यथोक्तम् - "भावयितव्यमनित्यत्वमशरणत्वं तथैकतान्यत्वे । अशुचित्वं संसारः, कर्माश्रवसंवरविधिश्च ॥१॥ [प्र.र./१४९] निर्जरणलोकविस्तर-धर्मस्वाख्याततत्त्वचिन्ताश्च । बोधेः सुदुर्लभत्वं च, भावना द्वादश विशुद्धाः" ॥२॥ [प्र.र./१५० ]
ताभ्यो 'रागादिक्षयो' राग-द्वेष-मोहमलप्रलयः सञ्जायते, सम्यक् चिकित्साया इव वातपित्तादिरोगापगमः, प्रचण्डपवनाद्वा यथा मेघमण्डलविघटनम् , रागादिप्रतिपक्षभूतत्वाद् भावनानामिति ।
ततोऽपि किम् ? इत्याह -"तद्भावेऽपवर्ग इति" [सू० १३२] 'तस्य' रागादिक्षयस्य 'भावे' सकललोकाऽलोकविलोकनशालिनोः केवलज्ञानदर्शनयोर्लब्धौ सत्यां निस्तीर्णभवार्णवस्य सतो जन्तोः 'अपवर्गः' उक्तनिरुक्त उद्भवतीति ।
किंलक्षणः ? इत्याह – "स आत्यन्तिको दुःखविगम इतीति'' [ सू० १३३ ] सोऽपवर्गः अत्यन्तं सकलदुःखशक्तिनिमूलनेन भवतीति आत्यन्तिको 'दुःखविगमः' सर्वशारीरमानसाशर्मविरह: सर्वजीवलोकासाधारणानन्दानुभवश्चेति ।
इत्थं देशनाविधि प्रपञ्च्योपसंहरन्नाह - "एवं संवेगकृद्धर्म, आख्येयो मुनिना परः । यथाबोधं हिशुश्रूषो वितेन महात्मना''[ध.बि./श्लो.१०प.-२९] इति । व्याख्या० ।
आह -धर्माख्यापनेऽपि यदा तथाविधकर्मदोषान्नावबोधः श्रोतुरुत्पद्यते तदा किंफलं धर्माख्यानम् ? इत्याह - "अबोधेऽपि फलं प्रोक्तं, श्रोतृणां मुनिसत्तमैः । कथकस्यविधानेन,नियमाच्छुद्धचेतसः"॥१॥[ध.बि./श्लो.११-प.२९ ]इति। सुगमम् ।
D:\new/d-1.pm5\3rd proof