________________
४८]
[धर्मसंग्रहः-प्रथमाधिकार: ___ तथा "वरबोधिलाभप्ररूपणेति' [ सू० १२५ ] 'वरस्य' तीर्थकरलक्षणफलकारणतयाऽशेषबोधिलाभेभ्योऽतिशायिनो 'बोधिलाभस्य' 'प्ररूपणा' प्रज्ञापना अथवा 'वरस्य' द्रव्यलाभव्यतिरेकिणः पारमार्थिकस्य बोधिलाभस्य प्ररूपणा हेतुतः स्वरूपतः फलतश्चेति । __ तत्र हेतुतस्तावदाह – “तथाभव्यत्वादितोऽसाविति" [ सू० १२६ ] भव्यत्वं नाम सिद्धिगमनयोग्यत्वमनादिपरिणामिभाव आत्मस्वतत्त्वमेव । तथाभव्यत्वं तु भव्यत्वस्य फलदानाभिमुख्यकारि(री) वसन्तादिवद्वनस्पतिविशेषस्य काल(:), कालसद्भावेऽपि न्यूनाधिकव्यपोहेन नियतकार्यकारिणी नियतिः । अपचयमानसंक्लेशं नानाशुभाशयसंवेदनहेतुः कुशलानुबन्धि कर्म । समुपचितपुण्यसंभारो महाकल्याणाशयः प्रधानपरिज्ञानवान् प्ररूप्यमाणार्थपरिज्ञानकुशलः पुरुषः । ततस्तथाभव्यत्वमादौ येषां ते तथा तेभ्योऽसौ वरबोधिलाभः प्रादुरस्ति । स्वरूपं च जीवादिपदार्थश्रद्धानमस्य ।
अथ फलत एव तमेवाह - "ग्रन्थिभेदे नात्यन्तसङ्क्लेश इति" [सू० १२७ ] इह ग्रन्थिरिव ग्रन्थिदृढो रागद्वेषपरिणामः, तस्य ग्रन्थेर्भेदेऽपूर्वकरणवज्रसूच्या विदारणे सति लब्धशुद्धतत्त्वश्रद्धानसामर्थ्याद् 'नात्यन्तं' न प्रागिवातिनिबिडतया 'संक्लेशो' रागद्वेषपरिणामः प्रवर्त्तते । न हि लब्धवेधपरिणामो मणिः कथञ्चिन्मलापूरितरन्ध्रोऽपि प्रागवस्थां प्रतिपद्यत इति ।
एतदपि कुतः ? इत्याह -"न भूयस्तद्वन्धनमिति" [सू० १२८] यतो 'न' 'भूयः' पुनरपि तस्य ग्रन्थेबन्धनं निष्पादनं भेदे सति संपद्यत इति । किमुक्तं भवति -यावती ग्रन्थिभेदकाले सर्वकर्मणामायुर्वर्जानां स्थितिरन्तःसागरोपमकोटीकोटिलक्षणाऽवशिष्यति तावत्प्रमाण(णा)मेवासौ सम्यगपलब्धसम्यग्दर्शनो जीवः कथञ्चित सम्यक्त्वापगमात तीव्रायामपि तथाविधसंक्लेशप्राप्तौ बध्नाति, न पुनस्तं(स्तां) बन्धेनातिक्रामतीति ।
तथा "असत्यपाये न दुर्गतिरिति" [सू० १२९] असत्यविद्यमाने 'अपाये' विनाशे सम्यग्दर्शनस्य परिशुद्धभव्यत्वपरिपाकसामर्थ्यान्मतिभेदादिकारणानवाप्तौ 'न' नैव 'दुर्गतिः' कुदेवत्व-कुमानुषत्व-तिर्यक्त्व-नारकत्वप्राप्तिः संपद्यते, किन्तु सुदेवत्वसुमानुषत्वे एव स्याताम् , अन्यत्र पूर्वबद्धायुष्केभ्य इति ।
तथा “विशुद्धेश्चारित्रमिति" [ सू० १३०] 'विशुद्धेः' परिशुद्धनिःशङ्कितत्वादि१. विशेषस्य कालसद्भावेऽपि P.L. ॥ २. जीवादिपदार्थः-P.L. ||
D:\new/d-1.pm5\3rd proof