________________
धर्मदेशनाप्रदानविधिः-श्लो० १९॥]
[४७ नाभिलाषपूर्वकः । अभिलाषश्च बालस्य तदहर्जातस्य प्रसारितलोचनस्य मातुः स्तनौ निभालयतः स्तन्यस्पृहारूपः । यच्च तदभिलाषान्तरं तन्नियमाद् भवान्तरभावीति । ____ तथा "देहकृतस्यात्मनाऽनुपभोग इति" [ सू० ११९] एकान्तभेदे देहाऽऽत्मनोः 'देहकृतस्य' शुभस्याशुभस्य वा 'आत्मनानुपभोगः' सुखदुःखानुभवद्वारेणाऽवेदनमापद्यते । न हि कश्चिदन्यकृतं शुभमशुभं वा वेदयितुमर्हति, कृतनाशाकृताभ्यागमदोषप्रसङ्गादिति ।
तथा “आत्मकृतस्य देहेनेति" [सू० १२०] यदि च देहाद् भिन्न एवात्मेत्यभ्युपगमस्तदा 'आत्मकृतस्य' कुशलादकुशलाद्वाऽनुष्ठानादात्मसमुपाजितस्य शुभस्याशुभस्य च कर्मण इहामुत्र च देहेन कानुपभोगोऽवेदनं प्रसज्यते, अकृतत्वात् ।
यदि नामैवमापद्यते तथापि को दोषः ? इत्याह – "दृष्टेष्टबाधेति" [सू० १२१] दृष्टस्य सर्वलोकप्रतीतस्य देहकृतस्यात्मना आत्मकृतस्य च देहेन यः सुखदुःखानुभवस्तस्य इष्टस्य च शास्त्रसिद्धस्य बाधाऽपह्नवः प्राप्नोति । तथाहि -दृश्यत एवात्मा देहकृताच्चौर्यपारदार्याद्यनार्यकार्याच्चारकादौ चिरशोक-विषादादीनि दुःखानि समुपलभमानः । शरीरं च तथाविधमनःसङ्क्षोभादापन्नज्वरादिजनितव्यथामनुभवति । न च दृष्टेष्टापलापिता युक्ता सताम् , नास्तिकलक्षणत्वात् तस्याः । ___ इत्थं सर्वथा नित्यमनित्यं च तथा देहाद् भिन्नमभिन्नं चात्मानमङ्गीकृत्य हिंसादीनामसंभवमापाद्योपसंहरन्नाह -"अतोऽन्यथैतत्सिद्धिरिति तत्त्ववाद इति"[सू० १२२ ] 'अत' एकान्तवादाद् ‘अन्यथा' नित्याऽनित्यादिस्वरूपे आत्मनि समभ्युपगम्यमाने एतस्मिन्(त्सिद्धिः) हिंसाहिंसादिसिद्धिस्तत्सिद्धौ च तन्निबन्धना बन्धमोक्षसिद्धिः 'इति' एष 'तत्त्ववादः' प्रतिज्ञायते, अतत्त्ववादिना पुरुषेण वेदितुं न पार्यत इति । ___ एवं तत्त्ववादे निरूपिते किं कार्यम् ? इत्याह -"परिणामपरीक्षेति" [ सू० १२३] 'परिणामस्य' तत्त्ववादविषयज्ञानश्रद्धानलक्षणस्य ‘परीक्षा' एकान्तवादाऽरुचिसूचनवचनसंभाषणादिनोपायेन निर्णयनं विधेयम् । ____ ततोऽपि किं कार्यम्? इत्याह – "शुद्धे बन्धभेदकथनमिति''[ सू० १२४] शुद्धे' परमां शुद्धिमागते परिणामे 'बन्धभेदकथनं' 'बन्धभेदस्य मूलप्रकृतिबन्धरूपस्याष्टविधस्य उत्तरप्रकृतिबन्धस्वभावस्य च सप्तनवतिप्रमाणस्य कथनं प्रज्ञापनं कार्यं बन्धशतकादिग्रन्थानुसारेणेति।
१. एतस्मिन् हिंसा० P.L.C. । एतत्सिद्धिः-इति धर्मबिन्दुवृत्तौ ।। २. योऽतत्त्वं० इति धर्मबिन्दुवृत्तौ ।। ३. बन्धशतक गा० ३९ ॥
D:\new/d-1.pm5\3rd proof