________________
४६]
[धर्मसंग्रहः-प्रथमाधिकारः "तत्पर्यायविनाशो, दुःखोत्पादस्तथा च संक्लेशः ।
एष वधो जिनभणितो, वर्जयितव्यः प्रयत्नेन" ॥१॥[ ] तथा "अनित्ये चापराऽहिंसनेनेति"[सू० ११४] 'अनित्ये च' सर्वथा प्रतिक्षणभङ्गरे पुनरात्मन्यभ्युपगम्यमाने सति, अपरेण केनचिल्लुब्धकादिना अहिंसनेनाऽव्यापादनेन, कस्यचिच्छूकरादेहिंसाऽसम्भवः । प्रतिक्षणभङ्गरत्वाभ्युपगमे हि सर्वेष्वात्मसु स्वत एव स्वजन्मलाभक्षणानन्तरं सर्वथा निवर्तमानेषु कः कस्य हिंसकः? को वा कस्य हिंसनीयः? इति ।
तथा “भिन्न एव देहान्न स्पृष्टवेदनमिति" [ सू० ११५ ] यदि हि 'भिन्न एव' विलक्षण एव सर्वथा देहादात्मा तदा 'न' नैव स्पृष्टस्य योषिच्छरीरशयनासनादेः कण्टकज्वलनज्वालादेश्च इष्टानिष्टरूपस्पर्शनेन्द्रियविषयस्य देहेन स्पृश्यमानस्य वेदनमनुभवनं प्राप्नोति भोगिनः पुरुषस्य । न हि देवदत्ते शयनादीनि भोगाङ्गानि स्पृशति विष्णुमित्रस्यानुभवप्रतीतिरस्तीति ।
तथा “निरर्थकश्चानुग्रह इति" [ सू० ११६] 'निरर्थक:' पुरुषसंतोषलक्षणफलविकलश्चः समुच्चये । 'अनुग्रहः' स्रक्चन्दनाङ्गनावसनादिभिर्भोगाङ्गैरुपष्टम्भो भवेद् देहस्य, देहादात्मनोऽत्यन्तभिन्नत्वात् , निग्रहस्याप्युपलक्षणमेतत् ।
एवं भेदपक्षं निराकृत्याभेदपक्षनिराकरणायाह-"अभिन्न एवामरणं वैकल्यायोगादिति" [ सू० ११७ ] 'अभिन्न एव' देहात् सर्वथा नानात्वमनालम्बमाने आत्मनि सति 'चैतन्यविशिष्टः कायः पुरुष इति मतावलम्बिनां सुरगुरुशिष्याणामभ्युपगमेन' किम् ? इत्याह –'अमरणं' मृत्योरभाव आपद्यते आत्मनः । कुतः? इत्याह -वैकल्यस्यायोगादघटनात् , यतो मृतेऽपि देहे न किञ्चित् पृथिव्यादिभूतानां देहारम्भकाणां वैकल्यमुपलभ्यते, वायोस्तत्र वैकल्यमिति चेत् ? न, वायुमन्तरेण उत्सूनभावाऽयोगात् , तर्हि तेजसस्तत्र वैकल्यमस्तीति चेत् , न, तेजसो व्यतिरेकेण कुथितभावाप्रतिपत्तेरिति कथं देहाभिन्नात्मवादिनां मरणमुपपन्नं भवेदिति ? |
प्राक्तनावस्थयोर्वायु-तेजसोस्तत्राभावात् मरणमुपपद्यते इति चेत् ? उच्यते – “मरणे परलोकाभाव इति"[ सू० ११८ ] 'मरणे' अभ्युपगम्यमाने परलोकस्याभावः प्रसज्यते, न हि देहादभिन्न एवात्मन्यभ्युपगम्यमाने कश्चित् परलोकयायी सिद्ध्यति, देहस्यात्रैव तावत्पातदर्शनात् तद्व्यतिरिक्तस्य चात्मनोऽनभ्युपगमात् । न च वक्तव्यं परलोक एव तर्हि नास्ति, तस्य सर्वशिष्टैः प्रमाणोपष्टम्भोपपन्नत्वेनाभीष्टत्वात् प्रमाणं चेदम् –यो योऽभिलाषः स सोऽभिलाषान्तरपूर्वको दृष्टो, यथा यौवनकालाभिलाषो बालकाली
D:\new/d-1.pm53rd proof