________________
धर्मदेशनाप्रदानविधिः - श्लो० १९ ॥ ]
[ ४५
बन्धस्यैव स्वरूपमाह –‘“प्रवाहतोऽनादिमानिति" [सू० १०८ ] प्रवाहतः परम्परातोऽनादिमान् आदिभूतबन्धकालविकलः ।
अत्रैवार्थे उपचयमाह –‘“ कृतकत्वेऽप्यतीतकालवदुपपत्तिरिति " [ सू० १०९ ] ‘कृतकत्वेऽपि’ स्वहेतुभिर्निष्पादितत्वेऽपि बन्धस्यातीत कालस्येवोपपत्तिर्घटनाऽनादिमत्त्वस्य वक्तव्या । किमुक्तं भवति ? प्रतिक्षणं क्रियमाणोऽपि बन्धः प्रवाहापेक्षयाऽतीतकालवदनादिमानेव ।
अथ यादृशादनयोर्दृष्टान्तदान्तिकभावोऽभूत् तं साक्षादेव दर्शयन्नाह –' वर्त्तमानताकल्पं कृतकत्वमिति" [सू० ११० ] यादृशी अतीतकालसमयानां वर्त्तमानता तत्कल्पं क्रियमाणत्वमित्युपन्यसितुं युक्तं स्यात् ।
यादृशी चात्मनि प्रागुपन्यस्ता बन्धहेतव उपपद्यन्ते तमन्वयव्यतिरेकाभ्यामाह " परिणामिन्यात्मनि हिंसादयो भन्नेऽभिन्ने च देहादिति" [सू० १११ ] परिणमनं परिणामो द्रव्यरूपतयाऽवस्थितस्यैव वस्तुनः पर्यायान्तरप्रतिपत्तिः । यथोक्तम् - " परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् । न च सर्वथा विनाशः, परिणामस्तद्विदामिष्टः " ॥ १ ॥ [ ]
परिणामो नित्यमस्यास्तीति परिणामी तत्र, आत्मनि जीवे, ‘हिंसादयः' प्राग्निरूपिता उपपद्यन्ते, तथा 'भिन्ने' पृथग्रूपे 'अभिन्ने च' तद्विपरीते, चकारो विशेषणसमुच्चये, कस्माद् ? इत्याह –‘देहात्’ शरीरात् ।
अत्रैवार्थे विपक्षे बाधामाह - " अन्यथा तदयोग इति" [सू० ११२] यदि परिणाम्यात्मा भिन्नाभिन्नश्चदेहान्नेष्यते, तदा तेषां हिंसादीनां बन्धहेतुतयोपन्यस्तानामयोगोऽघटना ।
कथम् ? इत्याह –“नित्य एवाधिकारतोऽसंभवादिति" [सू० ११३ ] नित्य एव `अच्युतानुत्पन्नस्थिरैकस्वभावे आत्मनि न तु पर्यायनयावलम्बनेनानित्यरूपेऽपीत्येवकारार्थोऽभ्युपगम्यमाने द्रव्यास्तिकनयावष्टम्भतोऽधिकारतस्तिलतुषत्रिभागमात्रमपि पूर्वस्वरूपादप्रच्यवमानत्वेनासम्भवादघटनात् हिंसायाः, यतो विवक्षितहिंसा विवक्षितपर्यायविनाशादिस्वभावा शास्त्रेषु गीयते । यथोक्तम्
१.
कालस्यैवो० L.P. ॥ २. जीव - P.L.C. ॥ ३. अ (प्र) च्यु० मु० अप्रच्यु० धर्मविन्दुवृत्तौ ॥ ४. पर्याय न (त) या० - मु० । पर्यायतया० L.P.C.I
D:\new/d-1.pm5\3rd proof