SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ४४] [धर्मसंग्रहः-प्रथमाधिकार: बन्धनं वस्तुसत्कर्मेति" [सू० १०६] तत्र बध्यमानः स्वसामर्थ्यतिरोधानेन पारवश्यमानीयमानः, कः ? इत्याह -आत्मा चतुर्दशभूतग्रामभेदभिन्नो जीवः प्रतिपाद्यते । तथा बध्यते मिथ्यात्वादिभिर्हेतुभिरात्माऽनेनेति बन्धनम् , किम् ? इत्याह -वस्तुसत्परमार्थतो विद्यमानम् कर्म ज्ञानावरणादि अनन्तानन्तपरमाणुप्रचयस्वभावमत एव मूर्तप्रकृतीति । अत्रात्मग्रहणेन साङ्ख्यमतनिरासमाह । यतस्तत्रोच्यते - "आत्मा न बध्यते, नापि संसरति कश्चित् संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः" । [शा.वा.स./३-३४] वस्तुसद्ग्रहणेन न तु सौगतमतस्य । यतस्तत्रापि पठ्यते – "चित्तमेव हि संसारो, रागादिक्लेशवासितम् । तदेव तैर्विनिर्मुक्तं, भवान्त इति कथ्यते" ॥१॥[शा.वा.स./५-३०] 'रागादिक्लेशवासितमिति' रागादिक्लेशैः सर्वथा चित्तादव्यतिरिक्तैर्वासितं संस्कृतम् । एवं हि बध्यमानान्न भिन्नं वस्तु सत्कर्मेत्युपगतं भवति । तत्र प्रकृतेरेव बन्धमोक्षाभ्युपगमे आत्मनः संसाराऽपवर्गावस्थयोरभिन्नैकस्वभावत्वेन योगिनां यम-नियमाद्यनुष्ठानं मुक्तिफलतयोक्तं यद्योगशास्त्रेषु तद् व्यर्थमेव स्यात् । बौद्धस्यापि चित्तादव्यतिरिक्तकर्मवादिनोऽवस्तुसत्त्वमेव कर्मणः स्यात् , यतो यद्यतोऽव्यतिरिक्तस्वरूपं तत् तदेव भवति, न च लोके तदेव तेनैव बध्यते इति प्रतीतिरस्ति, बध्यमान-बन्धनयोः पुरुष-निगडादिरूपयोभिन्नस्वभावयोरेव लोके व्यवह्रियमाणत्वात् । किञ्च -चित्तमात्रत्वे कर्मणोऽभ्युपगम्यमाने संसारापवर्गयोर्भेदो ने प्रतिप्राप्नोति, चित्तमात्रस्योभयत्राप्यविशेषात् । बन्धमोक्षहेतूनेवाह -"हिंसादयस्तद्योगहेतवस्तदितरे तदितरस्येति" [ सू० १०७] 'हिंसादयः' इति हिंसानृतादयो जीवपरिणामविशेषाः, किम् ? इत्याह -तद्योगहेतवस्तस्य बन्धस्य संसारफलत्वेन परमार्थचिन्तायां पापात्मकस्यैव योगहेतव आत्मना सह बन्धकारणभावमापन्ना वर्तन्ते । यदवाचि - "हिंसाऽनृतादयः पञ्च, तत्त्वाऽश्रद्धानमेव च । क्रोधादयश्च चत्वार, इति पापस्य हेतवः" ॥१॥ [ शा.वा.स./१-४] तथा 'तदितरे' तेभ्यो हिंसादिभ्य इतरेऽहिंसादय एव, ‘तदितरस्य' तस्माद् बन्धादितरो मोक्षस्तस्यानुरूपकारणप्रभवत्वात् सर्वकार्याणामिति । १. स च-P.L. ॥ २. न (प्रति) प्राप्नोति-मु० । न प्रतिप्राप्नोति-P.L.C. । न प्राप्नोति-इति धर्मबिन्दुवृत्तौ ॥ D:\new/d-1.pm53rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy