________________
धर्मदेशनाप्रदानविधि : - श्लो० १९ ॥ ]
[ ४३
फलविकलौ सन्तौ वस्तुपरीक्षाधिकारे समवतारितावपि तौ याचितकमण्डनम् । द्विविधं ह्यलङ्कारफलम् - निर्वाहे सति परिशुद्धाऽऽभिमानिकसुखजनिका स्वशरीरशोभा, कथञ्चिन्निर्वहणाभावे च तेनैव निर्वाहः । न च याचितकमण्डने एतद् द्वितीयमप्यस्ति, परकीयत्वात् तस्य, ततो याचितकमण्डनमिव याचितकमण्डनम् । इदमुक्तं भवति द्रव्यपर्यायोभयस्वभावे जीवे कषच्छेदौ निरुपचरिततयोपस्थाप्यमानौ स्वफलं प्रत्यवन्ध्यसामर्थ्यावेव स्याताम्, नित्याद्येकान्तवादे तु स्ववादशोभार्थं तद्वादिभिः कल्प्य - मानावप्येतौ याचितकमण्डनाकारौ प्रतिभासेते, न पुनः स्वकार्यकराविति ।
आह—अवगतं यथा कष- च्छेद - तापशुद्धः श्रुतधर्मो ग्राह्यः परं किंप्रणेतृकोऽसौ प्रमाणमिति व्यतिरेकतः साधयन्नाह - " नातत्त्ववेदिवादः सम्यग्वाद इति" [सू० १०२ ] न नैव अतत्त्ववेदिनः साक्षादेव वस्तुतत्त्वमज्ञातुं शीलस्य पुरुषविशेषस्यार्वाग्दर्शिन इत्यर्थः । वादो वस्तुप्रणयनमतत्त्ववेदिवादः । किम् ? इत्याह - सम्यग्वादो यथावस्थितार्थवादः, साक्षादवीक्षमाणेन हि प्रमात्रा प्रोक्तं जात्यन्धचित्रकरनरालिखितचित्रकर्मवत् यथावस्थितरूपविसंवादेनासमञ्जसमेव शास्त्रं स्यादिति कथं तद्भाषितं वस्तु अविपरीतरूपतां प्रतिपत्तुमुत्सहत इति ।
—
सम्यग्वादताया एवोपायमाह - " बन्धमोक्षोपपत्तितस्तच्छुद्धिरिति " [सू० १०३ ] बन्धो मिथ्यात्वादिहेतुभ्यो जीवस्य कर्मपुद्गलानां च वन्यय: पिण्डयोरिव क्षीर- नीरयोरिव वा परस्परमविभागपरिणामेनावस्थानम्, मोक्षः पुनः सम्यग्दर्शन - ज्ञान चारित्रेभ्यः कर्मणामत्यन्तोच्छेदः, ततो बन्धश्च मोक्षश्च बन्ध-मोक्षौ तयोरुपपत्तिर्घटना तस्याः सकाशाच्छुद्धिर्वस्तुवादनिर्मलता चिन्तनीया । इदमुक्तं भवति – यस्मिन् सिद्धान्ते बन्धमोक्षयोग्य आत्मा तैस्तैर्विशेषैर्निरूप्यते स सर्ववेदिपुरुषप्रतिपादित इति कोविदैर्निश्चीयते इति ।
इयमपि बन्धमोक्षोपपत्तिर्यथा युज्यते तथाऽऽह - " इयं बध्यमानबन्धनभावे इति" [सू० १०४] इयं बन्धमोक्षोपपत्तिर्बध्यमानस्य बन्धनस्य च वक्ष्यमाणस्य भावे सद्भावे सति भवति ।
कुत: ? इत्याह –कल्पनामात्रमन्यथेति " [सू० १०५ ] यस्मात् कारणादियं कल्पनैव केवला वितथार्थप्रतिभासरूपा, न पुनस्तत्र प्रतिभासमानोऽर्थोऽपीति कल्पनामात्रम्, अन्यथा मुख्यबध्यमानबन्धनयोरभावे वर्त्तते इति । बध्यमानबन्धन एव व्याचष्टे - -" बध्यमान आत्मा
१. जात्यन्धचित्रकनरा० P. L. C. ॥ २. तयोरुपपत्तिरुत्पत्तिर्घटना - मु० C. । P. L. प्रत्योः धर्मबिन्दुवृत्तावपि—तयोरुपपत्तिर्घटना - इति ॥ ३. बध्यमानं-मु० ॥
D:\new/d-1.pm5\ 3rd proof