SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ४२] [धर्मसंग्रहः-प्रथमाधिकारः स्वभावमासादयत्यतस्तापं प्रज्ञापयन्नाह – "उभयनिबन्धनभाववादस्ताप इति" [ सू० ९५] उभयोः कष-च्छेदयोरनन्तरमेवोक्तरूपयोनिबन्धनं परिणामि किम् ? इत्याह –तापोऽत्र श्रुतधर्मपरीक्षाधिकारे । इदमुक्तं भवति –यत्र शास्त्रे द्रव्यरूपतयाऽप्रच्युतानुत्पन्नः पर्यायात्मकतया च प्रतिक्षणमपरापरस्वभावास्कन्दनेनानित्यस्वभावो जीवादिरवस्थाप्यते स्यात् तत्र तापशुद्धिः । यतः परिणामिन्येवात्मादौ तथाविधाशुद्धपर्यायनिरोधेन ध्यानाध्ययनाद्यपरशुद्धपर्यायप्रादुर्भावादुक्तलक्षणः कषो बाह्यचेष्टाशुद्धिलक्षणश्च छेद उपपद्यते न पुनरन्यथेति । ___ एतेषां मध्यात् को बलीयानितरो वा ? इति प्रश्ने यत् कर्त्तव्यं तदाह -"अमीषामन्तरदर्शनमिति' [ सू० ९६] अमीषां त्रयाणां परीक्षाप्रकाराणां परस्परमन्तरस्य विशेषस्य समर्था-ऽसमर्थरूपस्य दर्शनं कार्यमुपदेशकेन । तदेव दर्शयति –“कष-च्छेदयोरयत्न इति" [सू० ९७ ] कष-च्छेदयोः परीक्षाऽक्षमत्वेनादरणीयतायामयत्नोऽतात्पर्य मतिमतामिति । कुतः ? इत्याह -"तद्भावेऽपि तापाभावेऽभाव इति" [ सू० ९८] तयोः कषच्छेदयोर्भावः सत्ता तद्भावस्तस्मिन् , किं पुनरतद्भावे ? इत्यपिशब्दार्थः । किम् ? इत्याह –'तापाभावे' उक्तलक्षणतापविरहे अभाव: परमार्थतोऽसत्तैव परीक्षणीयस्य, न हि तापे विघटमानं हेम कष-च्छेदयोः सतोरपि स्वं स्वरूपं प्रतिपत्तुमलम् , जातिसुवर्णत्वात् तस्य । एतदपि कथम् ? इत्याह -"तच्छुद्धौ हि तत्साफल्यमिति" [ सू० ९९] तच्छुद्धौ तापशुद्धौ हि यस्मात् तत्साफल्यं तयोः कष-च्छेदयोः सफलभावः । तथाहि -ध्यानाऽध्ययनादिकोऽर्थो विधीयमानः प्रागुपात्तकर्मनिर्जरणफलः । हिंसादिकश्च प्रतिषिध्यमानो नवकर्मोपादाननिरोधफलः, बाह्यचेष्टाशुद्धिश्चानयोरेवानाविर्भूतयोर्योगेनाविर्भूतयोश्च परिपालनेन फलवती स्यात् । न चापरिणामिन्यात्मन्युक्तलक्षणौ कष-च्छेदौ स्वकार्यं कर्तुं प्रभविष्णू स्यातामिति तयोस्तापशुद्धावेव सफलत्वमुपपद्यते न पुनरन्यथेति । ननु फलविकलावपि तौ भविष्यत इत्याह-"फलवन्तौ च वास्तवाविति" [सू० १०० ] उक्तलक्षणभाजौ सन्तौ पुनस्तौ कषच्छेदौ वास्तवौ कषच्छेदौ भवतः । स्वसाध्यक्रियाकारिणो हि वस्तुनो वस्तुत्वमुशन्ति सन्तः । विपक्षे बाधामाह –“अन्यथा याचितकमण्डनमिति' [सू० १०१] अन्यथा १. तौ ताविति-P.C. || २. उक्तलक्षणफलभाजौ-C.L. || ३. तौ वास्तवौ-C.P.L. || D:\new/d-1.pm53rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy