SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ [४१ धर्मदेशनाप्रदानविधिः-श्लो० १९॥] "तं शब्दमात्रेण वदन्ति धर्म, विश्वेऽपि लोका न विचारयन्ति । स शब्दसाम्येऽपि विचित्रभेदैविभिद्यते क्षीरमिवार्जुनीयम् ॥१॥[] लक्ष्मी विधातुं सकलां समर्थं, सुदुर्लभं विश्वजनीनमेनम् । परीक्ष्य गृह्णन्ति विचारदक्षाः, सुवर्णवद्वञ्चनभीतचित्ताः ॥२॥[ ] इति । परीक्षोपायमेवाह -"कषादिप्ररूपणेति' [ सू० ९२] यथा सुवर्णमात्रसाम्येन तथाविधमुग्धलोकेष्वविचारेणैव शुद्धाशुद्धरूपस्य सुवर्णस्य प्रवृत्तौ कष-च्छेद-तापाः परीक्षणाय विचक्षणैराद्रियन्ते । तथाऽत्रापि श्रुतधर्मे परीक्षणीये कषादीनां प्ररूपणेति । कषादीनेवाह -"विधिप्रतिषेधौ कष इति" [सू० ९३] विधिरविरुद्धकर्त्तव्याऽर्थोपदेशकं वाक्यं । यथा -स्वर्गकेवलार्थिना तपोध्यानादि कर्त्तव्यम् , समितिगुप्तिशुद्धा क्रिया इत्यादि । प्रतिषेधः पुनर्न हिंस्यात् सर्वभूतानि, नानृतं वदेदित्यादि, ततो विधिश्च प्रतिषेधश्च विधि-प्रतिषेधौ किम् ? इत्याह -कषः सुवर्णपरीक्षायामिव कषपट्टके रेखा । इदमुक्तं भवति –यत्र धर्मे उक्तलक्षणो विधिः, प्रतिषेधश्च पदे पदे सुपुष्कल उपलभ्यते, स धर्मः कषशुद्धः । न पुन: - "अन्यधर्मस्थिताः सत्त्वा, असुरा इव विष्णुना। उच्छेदनीयास्तेषां हि, वधे दोषो न विद्यते" ॥१॥[] इत्यादिकवाक्यगर्भ इति । छेदमाह-"तत्संभवपालनाचेष्टोक्तिश्छेद इति" [ सू० ९४] तयोविधि-प्रतिषेधयोरनाविर्भूतयोः संभवः, प्रादुर्भूतयोश्च पालना रक्षारूपा, ततस्तत्सम्भवपालनार्थं या चेष्टा भिक्षाटनादिबाह्यक्रियारूपा, तस्या उक्तिश्छेदः । यथा कषशुद्धावप्यन्तरामशुद्धिमाशङ्कमानाः सौवर्णिकाः सुवर्णगोलिकादेश्छेदमाद्रियन्ते, तथा कषशुद्धावपि धर्मस्य छेदमपेक्षन्ते । स च छेदो विशुद्धबाह्यचेष्टारूपो, विशुद्धा च चेष्टा सा यत्रासन्तावपि विधिप्रतिषेधावबाधितरूपौ स्वात्मानं लभेते । लब्धात्मानौ चातिचारलक्षणोपचारविरहितौ उत्तरोत्तरां वृद्धिमनुभवतः । सा यत्र धर्मे चेष्टा सप्रपञ्चा प्रोच्यते स धर्मः छेदशुद्ध इति । यथा कष-च्छेदशद्धमपि सवर्णं तापमसहमानं कालिकोन्मीलनदोषान्न सुवर्णभावमश्नुते । एवं धर्मोऽपि सत्यामपि कषच्छेदशुद्धौ तापपरीक्षायामनिर्वहमाणो न १. समर्थां-मु० P मूल । समर्थ-C.L.P. संशोधितं धर्मबिन्दुवृत्तौ च ।। २. चातिचारलक्षणापचार० मु० ॥ D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy