________________
४०]
[धर्मसंग्रह:-प्रथमाधिकारः न हृष्यत्यात्मनो माने, नापमाने च रुष्यति ।
गाङ्गो हद इवाक्षोभ्यो, यः स पण्डित उच्यते ॥३॥[] तथा-"पुरुषकारसत्कथेति" [सू० ८७] पुरुषकारस्योत्साहलक्षणस्य सत्कथा माहात्म्यप्रशंसनं । यथा -
"दुर्गा तावदियं समद्रपरिखा तावन्निरालम्बनं, व्योमैतन्ननु तावदेव विषमः पातालयात्रागमः । दत्वा मूर्द्धनि पादमुद्यमभिदो दैवस्य कीर्तिप्रियै
वीरैर्यावदहो न साहसतुलामारोप्यते जीवितम्" ॥१॥[] तथा- "विहाय पौरुषं कर्म, यो दैवमनुवर्त्तते ।
तद् विनश्यति तं प्राप्य, क्लीबं पतिमिवाङ्गना" ॥१॥[ ] इति । तथा- "वीर्यद्धिवर्णनमिति" [सू० ८८] वीर्यद्धेः प्रकर्षरूपायाः शुद्धाचारबललभ्यायास्तीर्थकरवीर्यपर्यवसानाया वर्णनमिति । यथा- "मेरुं दण्डं धरां छत्रं, यत् केचित् कर्तुमीशते ।
___ तत् सदाचारकल्पद्रुफलमाहुर्महर्षयः" ॥१॥[] तथा- "परिणते गम्भीरदेशनायोग इति"[सू० ८९] परिणते गम्भीरायाः पूर्वदेशनापेक्षयाऽत्यन्तसूक्ष्माया आत्मास्तित्वतद्वन्धमोक्षादिकाया देशनाया योगो व्यापार: कार्यः । इदमुक्तं भवति–यः पूर्वं साधारणगुणप्रशंसादिरनेकधोपदेशः प्रोक्त आस्ते, स यदा तदावारककर्मह्रासातिशयादङ्गाङ्गीभावलक्षणं परिणाममुपागतो भवति, तदा जीर्णे भोजनमिव गम्भीरदेशनायामसौ देशनार्होऽवतार्यत इति ।
अयं च गम्भीरदेशनायोगो न श्रुतधर्मकथनमन्तरेणोपपद्यत इत्याह -श्रुतधर्मकथनमिति"[सू०९० ] श्रुतधर्मस्य वाचना-प्रच्छना परावर्त्तनाऽनुप्रेक्षा-धर्मकथनलक्षणस्य सकलकुशलकलापकल्पद्रुमविपुलालवालकल्पस्य कथनं यथा -
"चक्षुष्मन्तस्त एवेह, ये श्रुतज्ञानचक्षुषा ।
सम्यक् सदैव पश्यन्ति, भावान् हेयेतरान्नराः" ॥१॥[ ] अयं च श्रुतधर्मः प्रतिदर्शनमन्यथान्यथा प्रवृत्त इति नासावद्यापि तत् सम्यग्भावं विवेचयितुमलमित्याह -
"बहुत्वात् परीक्षावतार इति" [सू० ९१] तस्य हि बहुत्वाच्छूतधर्माणां श्रुतधर्म इतिशब्दसमानतया विप्रलब्धबुद्धेः परीक्षायां त्रिकोटिपरिशुद्धिलक्षणायां श्रुतधर्मसम्बन्धिन्यामवतार: कार्यः । अन्यत्राप्यवाचि -
D:\new/d-1.pm53rd proof