________________
धर्मदेशनाप्रदानविधिः-श्लो० १९॥]
[३९ "कर्मभिरेव स जीवो, विवशः संसारचक्रमुपयाति ।
द्रव्यक्षेत्राद्धाभावभिन्नमावर्त्तते बहुशः" ॥१॥[ ] तथा “उपायतो मोहनिन्देति'' [सू० ८५ ] उपायत उपायेनानर्थप्रधानानां मूढपुरुषलक्षणानां प्रपञ्चनरूपेण मोहस्य मूढताया निन्दा अनादरणीयताख्यापनेति । यथा -
"अमित्रं कुरुते मित्रं, मित्रं द्वेष्टि हिनस्ति च । कर्म चारभते दुष्टं, तमाहुर्मूढचेतसम् ॥१॥[] अर्थवन्त्युपपन्नानि, वाक्यानि गुणवन्ति च । नैव मूढो विजानाति, मुमूर्षुरिव भैषजम् ॥२॥[ ] सम्प्राप्तः पण्डितः कृच्छं, पूजया प्रतिबुध्यते ।
मूढस्तु कृच्छ्रमासाद्य, शिलेवाम्भसि मज्जति" ॥३॥[ ] अथवोपायतो मोहफलोपदर्शनद्वारलक्षणान्मोहनिन्दा कार्येति -
"जन्ममृत्युजराव्याधिरोगशोकाद्युपद्रुताम् । वीक्षमाणा अपि भुवं, नोद्विजन्त्यपि मोहतः ॥१॥[] धर्मबीजं परं प्राप्य, मानुष्यं कर्मभूमिषु ।
न सत्कर्मकृषावस्य, प्रयतन्तेऽल्पमेधसः ॥२॥[ ] 'अस्येति' धर्मबीजस्य ।
"बडिशामिषवत् तुच्छे, कुसुखे दारुणोदये।
सक्तास्त्यजन्ति सच्चेष्टां, धिगहो दारुणं तमः ॥३॥[ ] इति । तथा “सज्ज्ञानप्रशंसनमिति'[ सू० ८६] सदविपर्यस्तं ज्ञानं यस्य स सज्ज्ञानः पण्डितो जनस्तस्य, सतो वा ज्ञानस्य विवेचनलक्षणस्य प्रशंसनं पुरस्कार इति । यथा -
"तन्नेत्रैस्त्रिभिरीक्षते न गिरिशो नो पद्मजन्माष्टभिः, स्कन्दो द्वादशभिर्न वा न मघवा चक्षुःसहस्रेण च । सम्भूयापि जगत्रयस्य नयनैस्तद्वस्तुनो वीक्षते,
प्रत्याहृत्य दृशः समाहितधियः पश्यन्ति यत् पण्डिताः" ॥१॥[ ] इति । तथा- "नाऽप्राप्यमभिवाञ्छन्ति, नष्टं नेच्छन्ति शोचितुम् ।
आपत्सु च न मुह्यन्ति, नराः पण्डितबुद्धयः ॥२॥[]
१. द्विष्टि-L.P.C. || २. नो० मु०॥
D:\new/d-1.pm5\3rd proof