________________
३८]
[धर्मसंग्रहः-प्रथमाधिकार: "यन्न प्रयान्ति पुरुषाः, स्वर्गं यच्च प्रयान्ति विनिपातम् । तत्र निमित्तमनार्यः, प्रमाद इति निश्चितमिदं मे" ॥३॥[] प्रमादश्चासदाचार इति ।
अपायानेव व्यक्तीकुर्वन्नाह -"नारकदुःखोपवर्णनमिति" [सू० ८२] नरके भवा नारकास्तेषामुपलक्षणत्वात् तिर्यगादीनां च दुःखान्यशर्माणि तेषामुपवर्णनं विधेयम् । यथा - "तीक्ष्णैरसिभिर्दीप्तैः, कुन्तैर्विषमैः परश्वधैश्चकैः। परशू-त्रिशूल-तोमर-मुद्गर-वासी-मुसण्डीभिः ॥१॥[] संभिन्नतालुशिरसश्छिन्नभुजाश्छिन्नकर्णनासोष्ठाः । भिन्नहृदयोदरान्त्रा, भिन्नाक्षिपुटाः सुदुःखार्ताः ॥२॥[ ] निपतन्त उत्पतन्तो, विचेष्टमाना महीतले दीनाः । नेक्षन्ते त्रातारं, नैरयिकाः कर्मपटलान्धाः ॥३॥[ ] क्षुत्तृहिमान्युष्णभयाहितानां, पराभियोगव्यसनातुराणाम् । अहो तिरश्चामतिदुःखितानां, सुखानुषङ्गः किल वार्तमेतत् ॥४॥[] मानुष्यकेऽपि दारिद्रय-रोग-दौर्भाग्य-शोक-मुख्यानि । जाति-कुला-ऽवयवादिन्यूनत्वं चाश्नुते प्राणी ॥५॥[] देवेषु च्यवनवियोगदुःखितेषु , क्रोधेा-मद-मदनातितापितेषु । आर्या नस्तदिह विचार्य संगिरन्तां,यत् सौख्यं किमपि निवेदनीयमस्ति"॥६॥[]इति ।
तथा “दुष्कुलजन्मप्रशस्तिरिति" [सू० ८३] दुष्कुलेषु शक-यवन शबरबर्बरादिसम्बन्धिषु यज्जन्म असदाचाराणां प्राणिनां प्रादुर्भावस्तस्य प्रशस्तिः प्रज्ञापना कार्या । ___ तत्र चोत्पन्नानां किम् ? इत्याह -"दुःखपरम्परानिवेदनमिति''[सू० ८४] दु:खानां शारीर-मानसाशर्मलक्षणानां या परम्परा प्रवाहस्तस्या निवेदनं प्ररूपणं, यथा - असदाचारपारवश्याज्जीवा दुष्कुलेषूत्पद्यन्ते । तत्र चासुन्दरवर्ण-रस-गन्ध-स्पर्शशरीरभाजां तेषां दुःखनिराकरणनिबन्धनस्य धर्मस्य स्वप्नेऽप्यनुपलम्भाद्धिसा-ऽनृत-स्तेयाशुद्धकर्मप्रवणानां नरकादिफलः पापकर्मोपचय एव संपद्यते । तदभिभूतानाम् इह परत्र चाऽव्यवच्छिन्नानुबन्धा दुःखपरम्परा प्रसूयते । यदुच्यते -
१. शोकमुख्यानि-P.L.C. । शोकमौाणि-मु० धर्मबिन्दुवृत्तौ च ॥
D:\new/d-1.pm53rd proof