________________
धर्मदेशनाप्रदानविधिः-श्लो० १९॥]
[३७ तथा "कल्याणपरम्पराऽऽख्यानमिति'[सू० ७६ ] ततः सुकुलागमनादुत्तरं कल्याणपरम्परायास्तत्र सुन्दरं रूपम् , आलयो लक्षणानां रहितमामयेनेत्यादिरूपाया अत्रैव धर्मफलाध्याये वक्ष्यमाणाया आख्यानं निवेदनं कार्यमिति ।
तथा “असदाचारगर्हेति" [ सू० ७७] असदाचारः सदाचारविलक्षणो हिंसानृतादिदशविधः पापहेतुभेदरूपः । यथोक्तम् -
"हिंसानृतादयः पञ्च, तत्त्वाश्रद्धानमेव च ।
क्रोधादयश्च चत्वार, इति पापस्य हेतवः" ॥१॥ [शा.वा.समु./का. ४] तस्य गर्हाऽसदाचारगर्दा । यथा -
"न मिथ्यात्वसमः शत्रुर्न मिथ्यात्वसमं विषम् । न मिथ्यात्वसमो रोगो, न मिथ्यात्वसमं तमः ॥१॥[ ] द्विषद्विषतमोरोगैर्दुःखमेकत्र दीयते । मिथ्यात्वेन दुरन्तेन, जन्तोर्जन्मनि जन्मनि ॥२॥[ ] वरं ज्वालाऽऽकुले क्षिप्तो, देहिनात्मा हुताशने ।
न तु मिथ्यात्वसंयुक्तं, जीवितव्यं कदाचन" ॥३॥[ ] इति तत्त्वाश्रद्धानगर्दा, एवं हिंसादिष्वपि गर्हायोजना कार्या ।
तथा "तत्स्वरूपकथनमिति" [सू० ७८ ] तस्याऽसदाचारस्य हिंसादेःस्वरूपकथनम् । यथा -"प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा"।[तत्त्वार्थं सू० ७८] "असदभिधानं मृषा" । “अदत्तादानं स्तेयम्"। "मैथुनमब्रह्म"। "मूर्छा परिग्रहः"[ तत्त्वार्थसूत्र ७।१०-१२] इत्यादि। ___तथा "स्वयं परिहार इति" [ सू० ७९] स्वयमाचारकथकेन परिहारोऽसदाचारस्य संपादनीयः । यतः स्वयमसदाचारमपरिहरतो धर्मकथनं नटवैराग्यकथनमिवानादेयमेव स्यान्न तु साध्यसिद्धिकरमिति ।।
तथा "ऋजुभावाऽऽसेवनमिति"[ सू० ८० ] ऋजुभावस्य कौटिल्यत्यागरूपस्यासेवनमनुष्ठानं देशकेनैव कार्यम् । एवं हि तस्मिन्नविप्रतारणकारिणि संभाविते सति शिष्यस्तदुपदेशान्न कुतोऽपि दूरवर्ती स्यादिति ।
तथा “अपायहेतुत्वदेशनेति" [सू० ८१] अपायानामनर्थानाम् इहलोकपरलोकगोचराणां हेतुत्वं प्रस्तावादसदाचारस्य यो हेतुभावस्तस्य देशना विधेया यथा -
D:\new/d-1.pm53rd proof