SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ३६] [धर्मसंग्रहः-प्रथमाधिकारः चारित्राचारोऽष्टधा पञ्चसमिति-त्रिगुप्तिभेदात् तत्स्वरूपं च प्रतीतमेव । तपआचारस्तु द्वादशविधः, बाह्या-ऽभ्यन्तरतपःषट्कद्वयभेदात् । तत्र - "अनशनमूनोदरता, वृत्तेः संक्षेपणं रसत्यागः । कायक्लेशः संलीनतेति बाह्यं तपः प्रोक्तम् ॥१॥ [ प्रशम.का./१७५ ] प्रायश्चित्तं ध्यानं, वैयावृत्त्यविनयावथोत्सर्गः । स्वाध्याय इति तपः षट्प्रकारमाभ्यन्तरं भवति ॥२॥ [ प्रशम.का./१७६] वीर्याचारः पुनरनिद्भुतबाह्याभ्यन्तरसामर्थ्यस्य सतः अनन्तरोक्तषट्त्रिंशद्विधे ज्ञानदर्शनाद्याचारे यथाशक्ति प्रतिपत्तिलक्षणं पराक्रमणम् , प्रतिपत्तौ च यथाबलं पालनेति । तथा “निरीहशक्यपालनेति" [ सू० ७० ] निरीहेणैहिकपारलौकिकफलेषु राज्यदेवत्वादिलक्षणेषु व्यावृत्ताभिलाषेण शक्यस्य ज्ञानाचारादेर्विहितमिदमितिबुद्ध्या पालना कार्या इति च कथ्यत इति । तथा "अशक्ये भावप्रतिपत्तिरिति" [सू० ७१] 'अशक्ये' ज्ञानाचारादिविशेष एव कर्तुमपार्यमाणे कुतोऽपि धृति-संहनन-काल-बलादिवैकल्याद् , 'भावप्रतिपत्तिः' भावेनान्त:करणेन प्रतिपत्तिरनुबन्धः, न पुनस्तत्र प्रवृत्तिरपि, अकालौत्सुक्यस्य तत्त्वत आर्तध्यानत्वादिति । तथा "पालनोपायोपदेश इति" [सू० ७२ ] एतस्मिन् ज्ञानाद्याचारे प्रतिपन्ने सति पालनाय उपायस्याधिकगुणतुल्यगुणलोकमध्यसंवासलक्षणस्य निजगुणस्थानकोचितक्रियापरिपालनानुस्मारणस्वभावस्य चोपदेशो दातव्य इति । तथा “फलप्ररूपणेति"[सू०७३ ] अस्याचारस्य सम्यक्परिपालितस्य सतः फलमिहैव तावदुपप्लवह्रासो भावैश्वर्यवृद्धिर्जनप्रियत्वं च, परत्र च सुगतिजन्मोत्तमस्थानलाभः, परम्परया निर्वाणावाप्तिश्चेति यत्कार्यं तस्य प्ररूपणा प्रज्ञापना विधेयेति । ___ अत्रैव विशेषमाह-"देवद्धिवर्णनमिति" [ सू० ७४] देवानामृद्धेविभूतिरूपादिलक्षणाया वर्णनं प्रकाशनम् , यथा-तत्रोत्तमा रूपसम्पत् , सत्स्थितिप्रभावसुखद्युतिलेश्यायोगः, विशुद्धेन्द्रियावधित्वम् , प्रकृष्टानि भोगसाधनानि, दिव्यो विमाननिवह इत्यादि वक्ष्यमाणमेव । ___तथा “सुकुलागमनोक्तिरिति"[ सू० ७५ ] देवस्थानाच्च्युतावपि विशिष्टे देशे, विशिष्टे काले, निष्कलङ्केऽन्वये उदग्रे सदाचारेणाख्यायिकापुरुषयुक्तेऽनेकमनोरथावपूरकमत्यन्तनिरवद्यं जन्मेत्यादिवक्ष्यमाणलक्षणैव (उक्तिः)। १. ०लक्षणैव-P.L.C. I ०लक्षणैवोक्तिः-इति धर्मबिन्दुवृत्तौ ।। D:\new/d-1.pm5!3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy