________________
धर्मदेशनाप्रदानविधिः-श्लो० १९॥]
[३५ इत्यादि । दोषश्चात्र व्यञ्जनभेदादर्थभेदः, तद्भेदे क्रियायाः, क्रियाभेदे च मोक्षाभावः, तदभावे च निरर्थका दीक्षेति ।
दर्शनाचारोऽपि निःशङ्कित-निष्काङ्क्षित-निर्विचिकित्सा-ऽमूढदृष्टि-उपबंहास्थिरीकरण-वात्सल्य-तीर्थप्रभावनाभेदादष्टधैव । तत्र 'निःशङ्कित इति' शङ्कनं शङ्कितम् , निर्गतं शङ्कितं यतोऽसौ निःशङ्कितः, देशसर्वशङ्कारहित इत्यर्थः । तत्र देशशङ्का –समाने जीवत्वे कथमेको भव्योऽपरस्त्वभव्य इति शङ्कते, सर्वशङ्का तु प्राकृतनिबद्धत्वात् सकलमेवेदं परिकल्पितं भविष्यतीति । न पुनरालोचयति यथा-भावा हेतुग्राह्या अहेतुग्राह्याश्च, तत्र हेतुग्राह्या जीवास्तित्वादयः, अहेतुग्राह्या भव्यत्वादयोऽस्मदाद्यपेक्षया प्रकृष्टज्ञानगोचरत्वात्तद्धेतूनामिति । प्राकृतनिबन्धोऽपि बालादिसंधारण इति । उक्तं च -
"बालस्त्रीमन्दमूर्खाणां, नृणां चारित्रकाङ्क्षिणाम् ।
अनुग्रहार्थं तत्त्वज्ञैः, सिद्धान्तः प्राकृतः कृतः ॥१॥[] दृष्टेष्टाविरुद्धत्वाच्च नायं परिकल्पनागोचरः । ततश्च नि:शङ्कितो जीव एवार्हच्छासनप्रतिपन्नो दर्शनाचार इत्युच्यते । अनेन दर्शन-दर्शनिनोरभेदोपचारमाह, तदेकान्तभेदे त्वदर्शनिन इव फलाभावान्मोक्षाभाव इत्येवं शेषपदेष्वपि भावना कार्या ।
तथा निष्काङ्क्षितो देशसर्वकाङ्क्षारहितः । तत्र देशकाङ्क्षा-एकं दर्शनं काङ्क्षते दिगम्बरदर्शनादि, सर्वकाङ्क्षा तु सर्वाण्येवेति, नालोकयति षड्जीवनिकायपीडामसत्प्ररूपणां चेति ।
विचिकित्सा मतिविभ्रमो, निर्गता विचिकित्सा यस्मादसौ निर्विचिकित्सः । साध्वेवं जिनदर्शनम् , किन्तु प्रवृत्तस्यापि सतो ममास्मात् फलं भविष्यति वा न वा ?, कृषिवलादिक्रियासूभयथाप्युपलब्धेरितिकुविल्परहितः, न ह्यविकल उपाय उपेयवस्तुपरिप्रापको न भवतीति सञ्जातनिश्चय इत्यर्थः, यद्वा निविजुगुप्सो जुगुप्सारहितः। ____ तथा अमूढदृष्टिः, बालतपस्वितपोविद्याद्यतिशयैर्न मूढा स्वभावान्न चलिता दृष्टिः सम्यग्दर्शनरूपा यस्यासौ अमूढदृष्टिः, एतावान् गुणिप्रधानो दर्शनाचारनिर्देशः । अधुना गुणप्रधानः-उपबृंहणं नाम समानधार्मिकाणां सद्गुणप्रशंसनेन तवृद्धिकरणम् , स्थिरीकरणं धर्माद् विषीदतां तत्रैव स्थापनम् , वात्सल्यं समानधार्मिकजनोपकारकरणम् , प्रभावना धर्मकथादिभिस्तीर्थख्यापनेति । गुणप्रधानश्चायं निर्देशो गुण-गुणिनोः कथञ्चिद् भेदख्यापनार्थम् , एकान्ताभेदे गुणनिवृत्तौ गुणिनोऽपि निवृत्तेः शून्यताऽऽपत्तिरिति ।
१. निबन्धनोऽपि० । ॥ २. स्मृतः-मु०-C ।।
D:\new/d-1.pm5\3rd proof