________________
३४]
[धर्मसंग्रह:-प्रथमाधिकारः व्यवहारः कथञ्चिदापन्नदोषव्यपोहाय प्रायश्चित्तलक्षणः, प्रज्ञप्तिः संशयापन्नस्य मधुरवचनैः प्रज्ञापनम् , दृष्टिवादश्च श्रोत्रपेक्षया सूक्ष्मजीवादिभावकथनमिति ।
तथा "ज्ञानाद्याचारकथनमिति" [ सू० ६९] ज्ञानस्य श्रुतलक्षणस्य आचारो ज्ञानाचारः, आदिशब्दाद्दर्शनाचारश्चारित्राचारस्तपआचारो वीर्याचारश्चेति । ततो ज्ञानाद्याचाराणां कथनं प्रज्ञापनमिति समासः । तत्र ज्ञानाचारोऽष्टधाकाल-विनय-बहुमानोपधानाऽनिह्नव-व्यञ्जना-ऽर्थ-तदुभयभेदलक्षणः ।
तत्र काल इति यो यस्याङ्गप्रविष्टादेः श्रुतस्य काल उक्तस्तस्मिन्नेव तस्य स्वाध्यायः कर्तव्यो नान्यदा, तीर्थकरवचनाद् , दृष्टं च कृष्यादेः कालकरणे फलं विपर्यये तु विपर्यय इति । तथा श्रुतग्रहणं कुर्वता गुरोविनय: कार्यः, विनयो ह्यभ्युत्थान-पादधावनादि:अविनयगृहीतं हि तदफलं भवति । तथा श्रुतग्रहणोद्यतेन गुरोर्बहुमानः कार्यः, बहुमानो नामाऽऽन्तरो भावप्रतिबन्धः, एतस्मिन् सति अक्षेपेणाविकलं श्रुतं भवति । अत्र च विनयबहुमानयोश्चतुर्भङ्गी भवति, एकस्य विनयो न बहुमानः, अपरस्य बहुमानो न विनयः अन्यस्य विनयोऽपि बहुमानोऽपि, अन्यतरस्य न विनयो नापि बहुमान इति । तथा श्रुतग्रहणमभीप्सतोपधानं कार्यम् , उपदधाति पुष्णाति श्रुतमित्युपधानं तपः, तद्धि यद्यत्राध्ययने आगाढादियोगलक्षणमुक्तं तत्तत्र कार्यम् , तत्पूर्वं श्रुतग्रहणस्यैव फलवत्त्वात् । 'अनिह्नव इति' गृहीतश्रुतेनानिह्ववः, कार्यः, यद्यत् सकाशेऽधीतं तत्र स एव कथनीयो नान्यश्चित्तकालुष्याऽऽपत्तेरिति ।।
तथा श्रुतग्रहणप्रवृत्तेन तत्फलमभीप्सता व्यञ्जनभेदोऽर्थभेद उभयभेदश्च न कार्यः । तत्र व्यञ्जनभेदो यथा “धम्मो मंगलमुक्किटुं" [ दशवै० १।१] इति वक्तव्ये 'पुण्णं कल्लाणमुक्कोस'मित्याह। अर्थभेदस्तुयेथा - "आवंतिकेआवंति लोगंसि विप्परामुसंति" [आचाराङ्ग सू० ५।१] इत्यत्राचारसूत्रे यावन्तः केचन लोकेऽस्मिन् पाखण्डिलोके विपरामृशन्तीत्यर्थाभिधाने अवन्तिजनपदे केयावंती रज्जुवन्ताः लोकः परामृशति कूपे इत्याह । उभयभेदस्तु द्वयोरपि याथात्म्योपमर्दै यथा-धर्मो मंगलमुत्कृष्टः, अहिंसा पर्वतमस्तके
१. अक्षेपेणाविक(फ)लं-मु० | P.L. प्रत्योः धर्मबिन्दुवृत्तौ च-अक्षेपेणाविकलं० ॥ २. यथा आवंति लोगंसि L.P. ॥ ३. विप्परमसंति-P. । विपरामुसंति-मु । विपरामसंति L ॥ ४. अवन्तिजनपदे केया(०) रज्जुस्तां(वन्तो) लोकः मु० । आवन्ति जनपदे केयारब्रुवंता लोकः P.L.C.। आवन्ति जनपदे केयवंती-रज्जुर्वान्ता लोकः विपरामृशति-इति धर्मबिन्दुवृत्तौ प० १८ ॥ ५. मङ्गलमुक्कस्थ:P। मङ्गलमुत्कृष्ट-इति धर्मबिन्दुवृत्तौ ।।
D:\new/d-1.pm5\3rd proof