SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ धर्मदेशनाप्रदानविधि:- श्लो० १९॥] [३३ "परलोकविधौ शास्त्रात् , प्रायो नानन्यदपेक्षते । आसन्नभव्यो मतिमान् श्रद्धाधनसमन्वितः ॥१॥ [यो.बि./श्लो.२२१] उपदेशं विनाप्यर्थकामौ प्रति पटुर्जनः । धर्मस्तु न विना शास्त्रादिति तत्रादरो हितः ॥२॥ [ यो.बि./श्लो.२२२ ] अर्थादावविधानेऽपि, तदभावः परं नृणाम् । धर्मेऽविधानतोऽनर्थः, क्रियोदाहरणात् परः ॥३॥ [ यो.बि./श्लो.२२३] तस्मात् सदैव धर्मार्थी, शास्त्रयत्नः प्रशस्यते । लोके मोहान्धकारेऽस्मिन् , शास्त्रालोकः प्रवर्तकः" ॥४॥[यो.बि./श्लो.२२४] 'शास्त्रयत्नः' इति शास्त्रे यत्नो यस्येति समासः । "पापमयौषधं शास्त्र, शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्रं, शास्त्रं सर्वार्थसाधनम् ॥५॥ [यो.बि./श्लो.२२५] न यस्य भक्तिरेतस्मिंस्तस्य धर्मक्रियापि हि। अन्धप्रेक्षाक्रियातुल्या, कर्मदोषादसत्फला ॥६॥ [यो.बि./श्लो.२२६ ] यः श्राद्धो मन्यते मान्यानहङ्कारविवर्जितः । गुणरागी महाभागस्तस्य धर्मक्रिया परा ॥७॥ [ यो.बि./श्लो.२२७] यस्य त्वनादरः शास्त्रे, तस्य श्रद्धादयो गणाः । उन्मत्तगुणतुल्यत्वात् , न प्रशंसास्पदं सताम् ॥८॥ [यो.बि./श्लो.२२८] मलिनस्य यथाऽत्यन्तम् , जलं वस्त्रस्य शोधनम् । अन्तःकरणरत्नस्य, तथा शास्त्रं विदुर्बुधाः ॥९॥ [ यो.बि./श्लो.२२९] शास्त्रे भक्तिर्जगद्वन्द्यैर्मुक्तिदूतो परोदिता। अत्रैवेयमतो न्याय्या, तत्प्राप्त्यासन्नभावतः" ॥१०॥ [यो.बि./श्लो.२३०] 'अत्रैव' इति मुक्तावेव 'इयं' इति शास्त्रभक्तिः, 'तत्प्राप्त्यासन्नभावतः' इति मुक्तिप्राप्तिसमीपभावादिति । तथा "प्रयोग आक्षेपण्या इति" [सू० ६८] 'प्रयोगो' व्यापारणं धर्मकथाकाले, आक्षिप्यन्ते आकृष्यन्ते मोहात् तत्त्वं प्रति भव्यप्राणिनोऽनयेति आक्षेपणी तस्याः कथायाः, सा चाचार-व्यवहार-प्रज्ञप्ति दृष्टिवादभेदाच्चतु , तत्राचारो लोचास्नानादिसुष्टुक्रियारूपः, १. धर्मोऽवि० C.P.L. | योगबिन्दौ धर्मबिन्दुवृत्तौ च-धर्मेऽवि० ॥ २. ०र्मुक्तेर्दूती-इतियोगबिन्दौ ॥ ३. L.P.C. धर्मबिन्दुवृत्तिः । लोचास्नानादिः सु० मु० ॥ D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy