________________
३२]
[धर्मसंग्रह:-प्रथमाधिकारः तथा "साधारणगुणप्रशंसेति ।[ सू०६१] साधारणानां लोक-लोकोत्तरयोः सामान्यानां गुणानां प्रशंसा पुरस्कारो देशनार्हस्याग्रतो विधेया । यथा -
"प्रदानं प्रच्छन्नं गृहमुपगते संभ्रमविधिः, प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः । अनुत्सेको लक्ष्म्यां नरभिभवसाराः परकथाः,
श्रुते चासंतोषः कथमनभिजाते निवसति ॥१॥[] तथा "सम्यक्तदधिकाख्यानमिति" [सू० ६२] सम्यगविपरीतरूपतया तेभ्यः साधारणगुणेभ्योऽधिका विशेषवन्तो ये गुणाः तेषामाख्यानं कथनं । यथा - "पञ्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम् ।
अहिंसा सत्यमस्तेयं, त्यागो मैथुनवर्जनम्" ॥ [ हारिभद्रीयाष्टक १३।२] इति । तथा "अबोधेऽप्यनिन्देति' [ सू० ६३] अबोधेऽप्यनवगमेऽपि सामान्यगुणानां विशेषगुणानां वा व्याख्यातानामपि, अनिन्दा, अहो मन्दबुद्धिर्भवान्य इत्थमाचक्षाणेष्वप्यस्मासु न बुध्यते वस्तुतत्त्वमित्येवं श्रोतुस्तिरस्कारपरिहाररूपा, निन्दितो हि श्रोता किञ्चिद् बुभुत्सुरपि सन् दूरं विरज्यत इति । तर्हि किं कर्त्तव्यम् ? इत्याह -
"शुश्रूषाभावकरणमिति''[ सू०६४] धर्मशास्त्रं प्रति श्रोतुमिच्छा शुश्रूषा, तल्लक्षणो भाव: परिणामस्तस्य करणं निवर्त्तनम् , श्रोतुस्तैस्तैर्वचनैरिति । शुश्रूषामनुत्पाद्य धर्मकथने प्रत्युतानर्थसम्भवः । पठ्यते च -
"स खलु पिशाचकी वातकी वा यः परेऽनर्थिनि वाचमुदीरयति"।[]
"भूयो भूय उपदेश इति" [ सू० ६५] भूयो भूयः पुनः पुनरुपदिश्यत इत्युपदेशः उपदेष्टुमिष्टः वस्तुविषयः कथञ्चिदनवगमे सति कार्यः, किं न क्रियते दृढसन्निपातरोगिणां पुनः पुनः क्रिया तिक्तादिक्वाथपानोपचार इति ।।
तथा "बोधे प्रज्ञोपवर्णनमिति" [सू० ६६] बोधे सकृदुपदेशेन भूयो भूय उपदेशेन वोपदिष्टवस्तुनः परिज्ञाने तस्य श्रोतुः प्रज्ञोपवर्णनं बुद्धिप्रशंसनं यथा -नालघुकर्माणः प्राणिन एवंविधसूक्ष्मार्थबोद्धारो भवन्तीति ।
तथा "तन्त्रावतार इति" [सू० ६७] तन्त्रे आगमे अवतारः प्रवेशः आगमबहुमानोत्पादनद्वारेण तस्य विधेयः । आगमबहुमानश्चैवमुत्पादनीयः -
१. ०र्भवा इत्थमाचक्षणमाणे. L. ॥ २. श्रोतुतिरस्कारपरिहाररूपा-मु० धर्मबिन्दुवृत्तौ च । श्रोतुतिरस्काररूपपरिहाररूपा-P.L.C. ||
D:\new/d-1.pm5\3rd proof