SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ धर्मदेशनाप्रदानविधि:-श्लो० १९॥] [३१ अष्टौ साधुभिरनिशं, मातर इव मातरः प्रवचनस्य । नियमेन न मोक्तव्याः, परमं कल्याणमिच्छद्भिः ॥८॥ [ षोड. २/८] एतत्सचिवस्य सदा, साधोर्नियमान्न भवभयं भवति । भवति च हितमत्यन्तं, फलदं विधिनाऽऽगमग्रहणम् ॥९॥[ षोड. २/९] गुरुपारतन्त्र्यमेव च, तद्बहुमानात् सदाशयानुगतम् । परमगुरुत्वाप्तेरिह, बीजं तस्माच्च मोक्ष इति" ॥१०॥[षोड. २/१०] इत्यादिसाधुवृत्तं, मध्यमबुद्धेः सदा समाख्येयम् ॥ [ षोड. २/११पू.] अथ बुधोपदेशविधिर्यथा - "आगमतत्त्वं तु परं, बुधस्य भावप्रधानं तु ॥११॥ [ षोड. २/११उ.] वचनाऽऽराधनया खलु, धर्मस्तद्वाधया त्वधर्म इति । इदमत्र धर्मगुह्यं, सर्वस्वं चैतदेवास्य ॥१२॥ [ षोड. २/१२] यस्मात् प्रवर्तकं भुवि, निवर्त्तकं चान्तरात्मनो वचनम् । धर्मश्चैतत्संस्थो, मौनीन्द्रं चैतदिह परमम्" ॥१३॥[ षोड. २/१३] इत्यादि। कथं सा कार्या ? इत्याह –'यथाबोधम्' इति बोधानतिक्रमेण, अनवबोधे धर्माख्यानस्योन्मार्गदेशनारूपत्वेन प्रत्युतानर्थसम्भवात् , न ह्येडान्धः समाकृष्यमाण: सम्यगध्वानं प्रतिपद्यत इति । मुनिना कीदृशेन ? 'महात्मना' तदनुग्रहैकपरायणतया महान् आत्मा यस्य स तेन । इति सङ्खपतो धर्मदेशनाप्रदानविधिः । विस्तरतस्तु धर्मबिन्दावुक्तः । स चायम् - "इदानीं तद्विधिमनुवर्तयिष्याम इति" [सू० ५९] 'इदानीं' सम्प्रति 'तद्विधि' सद्धर्मदेशनाक्रमं 'वर्णयिष्यामः' निरूपयिष्यामो वयमिति । तद्यथा - ___ "तत्प्रकृतिदेवताधिमुक्तिज्ञानमिति" [ सू० ६०] तस्य सद्धर्मदेशनार्हस्य जन्तोः प्रकृतिः स्वरूपं गुणवल्लोकसङ्गप्रियत्वादिका देवताधिमुक्तिश्च बुद्धकपिलादिदेवता विशेषभक्तिस्तयोर्ज्ञानं प्रथमतो देशकेन कार्यम् । ज्ञातप्रकृतिको हि पुमान् रक्तो द्विष्टो मूढः पूर्वं व्युद्ग्राहितश्च चेन्न भवति तदा कुशलैस्तथा तथानुवर्त्य लोकोत्तरगुणपात्रतामानीयते । विदितदेवताविशेषाधिमुक्तिश्च तत्तद्देवताप्रणीतमार्गानुसारिवचनोपदर्शनेन दूषणेन च सुखमेव मार्गेऽवतारयितुं शक्य इति । १. गुणवत्सङ्गलोकप्रियत्वादिका-मु० | L.P.C. धर्मबिन्दुवृत्तावपि गुणवल्लोकसङ्ग० इति ॥ २. विशेषमुक्तिस्तयो०-इति धर्मबिन्दुवृत्तौ ॥ ३. शक्यते-इति धर्मबिन्दुवृत्तौ ॥ D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy