SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ५०] [धर्मसंग्रहः-प्रथमाधिकारः आह -प्रकारान्तरेणापि देशनाफलस्य संभाव्यमानत्वादलमिहैव यत्नेनेत्याशङ्क्याह - नोपकारो जगत्यस्मिस्तादृशो विद्यते क्वचित् । यादृशी दुःखविच्छेदाद् देहिनां धर्मदेशना ॥२॥ [ध.बि./श्लो.१२-प.२९] इति । 'न' नैवोपकारोऽनुग्रहो 'जगति' भुवने 'अस्मिन्' उपलभ्यमाने 'तादृशो' 'विद्यते' समस्ति 'क्वचित्' काले क्षेत्रे वा 'यादृशी' यादृग्रूपा 'दुःखविच्छेदात्' शारीरमानसदुःखापनयनात् 'देहिनां' देशनार्हाणां 'धर्मदेशना' इति धर्मदेशनाजनितो मार्गश्रद्धानादिर्गुणः । तस्य नि:शेषक्लेशलेशाकलङ्कमोक्षाक्षेपं प्रत्यवन्ध्यकारणत्वादिति निरूपितो धर्मबिन्दौ [अध्याय २। प० १६-३०] सद्धर्मदेशनाप्रदानविधिः । अथ सद्धर्मग्रहणयोग्यतामाह - संविग्नस्तच्छ्रुतेरेवं, ज्ञाततत्त्वो नरोऽनघः । दृढं स्वशक्त्या जातेच्छः, संग्रहेऽस्य प्रवर्त्तते ॥२०॥ "एवम्' उक्तनीत्या 'तच्छतेः' तस्या धर्मदेशनायाः श्रुतेः श्रवणाद् 'नरः' श्रोता पुमान् ‘अनघो' व्यावृत्ततत्त्वप्रतिपत्तिबाधकमिथ्यात्वमालिन्यः सन्नत एव 'ज्ञाततत्त्वः' करकमलतलाकलितनिस्तलास्थूलामलमुक्ताफलवच्छास्त्रलोचनबलेन लोकितसकलजीवादिवस्तुवादः, तथा 'संविग्नः' संवेगमुक्तलक्षणं प्राप्तः सन् ‘जातेच्छो' लब्धचिकीर्षापरिणामोऽर्थाद् धर्मे 'दृढम्' अतिसूक्ष्माभोगपूर्वं यथा स्यात्तथा 'स्वशक्त्या' स्वसामर्थ्येन हेतुभूतेन 'अस्य' धर्मस्य सङ्ग्रहे सम्यग्वक्ष्यमाणयोगवन्दनादिशुद्धिरूपविधिपूर्वं ग्रहे प्रतिपत्तौ 'प्रवर्त्तते' प्रवृत्तिमाधत्ते । अदृढमयथाशक्ति च धर्मग्रहणप्रवृत्तौ भङ्गसंभवेन प्रत्युतानर्थसंभव इति दृढस्वशक्त्योर्ग्रहणं कृतमिति विशेषगृहिधर्मग्रहणयोग्यता प्रतिपादिता भवति । शास्त्रान्तरे चैकविंशत्या गुणैर्धर्मग्रहणार्हो भवतीति प्रतिपादितं । तद्यथा - धम्मरयणस्स जुग्गो, अक्खुद्दो १ । रूववं २ । पगइसोमो ३ । लोगप्पिओ ४ । अकूरो ५ । भीरू ६ । असढो ७ । सुदक्खिण्णो ८ ॥१॥ लज्जालुओ ९ । दयालू १०। मज्झत्थो सोमदिट्ठी ११ । गुणरागी १२ । सक्कह १३ । सुपक्खजुत्तो १४ । सुदीहदंसी १५ । विसेसन्नू १६ ॥२॥ १. ०बलेन० P.L.C. । बलेना-मु० ॥ २. मज्झत्थो ११-सोमदिट्ठी-P.L. ॥ ३. सुदीहदरिसीइति धर्मरत्नप्रकरणे । प्रवचनसारोद्धारे गा० १३५७ सुदीहदंसी-इति ।। D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy