________________
२८]
[धर्मसंग्रहः-प्रथमाधिकार: गुडकल्पा मित्रा तारा बला दीप्रा चेति चतस्रो योगदृष्टय उल्लसन्ति । भगवत्पतअलिभदन्तभास्करादीनां तदभ्युपगमात् ।
तंत्र मित्रायां दृष्टौ स्वल्पो बोधः, यमो योगाङ्गम् , देवकार्यादावखेदो योगबीजोपादानम् , भवोद्वेगः सिद्धान्तलेखनादिकं बीजश्रुतोपरमः श्रद्धासत्सङ्गश्च भवति । चरमयथाप्रवृत्तकरणसामर्थ्येन कर्ममलस्याल्पीकृतत्वादत एवेदं चरमयथाप्रवृत्तकरणं परमार्थतोऽपूर्वकरणमेवेति योगबिन्दौ व्यवस्थितम् । तथा च तद्ग्रन्थः -
"अपूर्वासन्नभावेन, व्यभिचारवियोगतः । तत्त्वतोऽपूर्वमेवेदमिति योगविदो विदुः ॥१॥[यो.ह.स./श्लो.३९] प्रथमं यद् गुणस्थानं, सामान्येनोपवर्णितम् ।
अस्यां तु तदवस्थायां, मुख्यमन्वर्थयोगतः" [यो.दृ.स./श्लो.४० ] इति । १। तारायां तु मनाक् स्पष्टं दर्शनम् , शुभा नियमाः, तत्त्वजिज्ञासा, योगकथास्वविच्छिन्ना प्रीति वयोगिषु यथाशक्त्युपचारः, उचितक्रियाऽहानिः, स्वाचारहीनतायां महात्रासः, अधिककृत्यजिज्ञासा च भवति । तथास्यां स्थितः स्वप्रज्ञाकल्पिते विसंवाददर्शनान्नानाविधमुमुक्षुप्रवृत्तेः कात्स्येन ज्ञातुमशक्यत्वाच्च शिष्टाचरितमेव पुरस्कृत्य प्रवर्त्तते । उक्तं च -
"नास्माकं महती प्रज्ञा, सुमहान् शास्त्रविस्तरः ।
शिष्टाः प्रमाणमिह तदित्यस्यां मन्यते सदा ॥१॥ [यो.इ.स./श्लो.४८ ] ॥२॥
बलायां दृष्टौ दृढं दर्शनम् , स्थिरसुखमासनम् , परमा तत्त्वशुश्रूषा, योगगोचरोत्क्षेपः, स्थिरचित्ततया योगसाधनोपायकौशलं च भवति ।
दीप्रायां दृष्टौ प्राणायामः, प्रशान्तवाहितालाभाद् योगोत्थानविरहस्तत्त्वश्रवणम् , प्राणेभ्योऽपि धर्मस्याधिकत्वेन परिज्ञानम् , तत्त्वश्रवणतो गुरुभक्तेरुद्रेकात् समापत्यादिभेदेन तीर्थकृद्दर्शनं च भवति ।४।
तथा मित्रादृष्टिस्तृणाग्निकणोपमा, न तत्त्वतोऽभीष्टकार्यक्षमा सम्यक्प्रयोगकालं यावदनवस्थानात् , अल्पवीर्यतया ततः पटुबीजसंस्काराधानानुपपत्तेः, विकलप्रयोगादतो वन्दनादिकार्यायोगादिति ।
१. द्रष्टव्यः योगदृष्टिसमुच्चयः सटीक: गा० १६ ॥ २. द्रष्टव्यः योगदृष्टिसमुच्चयः सटीक: गा० २१तः २७ ।। ३. श्रद्धासङ्गमश्च-मु० C. || ४. द्रष्टव्यं योगदृष्टिसमुच्चये गा० ४१तः ।। ५. योगदृष्टिसमुच्यये गा० ४९तः द्रष्टव्यम् ।। ६. योगगोचराक्षेपः- मु० C ॥ ७. योगदृष्टिसमुच्यये गा० ५७तः द्रष्टव्यम् ।। ८. तुला-योगदृष्टिसमुच्चयवृत्तिः गा० १५।।
D:\new/d-1.pm5\3rd proof