________________
धर्मदेशनाप्रदानविधिः-श्लो० १९॥]
[२९ तारादृष्टिोमयाग्निकणसदृशी, इयमप्युक्तकल्पैव, तत्त्वतो विशिष्टवीर्यस्थितिविकलत्वादतोऽपि प्रयोगकाले स्मृतिपाटवासिद्धेस्तदभावे प्रयोगवैकल्यात्ततस्तथा तत्कार्याभावादिति ।
बलादृष्टिः काष्ठाग्निकणतुल्या ईषद्विशिष्टोक्तबोधद्वयात् , तद्भावेनात्र मनाक् स्थितिवीर्ये, अतः पटुप्राया स्मृतिरिह प्रयोगसमये, तद्भावे चार्थप्रयोगमात्रप्रीत्या यत्नलेश-भावादिति ।
दीप्रादृष्टिः दीपप्रभासदृशी, विशिष्टतरोक्तबोधत्रयादतोऽत्रोदने स्थितिवीर्ये तत्पव्यपि प्रयोगसमये स्मृतिः । एवं भावतोऽप्यत्र द्रव्यप्रयोगो वन्दनादौ, तथाभक्तितो यत्नभेदप्रवृत्तेरिति । प्रथमगुणस्थानप्रकर्षं एतावानिति समयविदः ।
इत्थं चोक्तस्य योगदृष्टिसमुच्चयग्रन्थार्थस्यानुसारेण मिथ्यादृष्टिनामपि माध्यस्थ्यादिगुणमूलकमित्रादिदृष्टियोगेन तस्य गुणस्थानकत्वसिद्धेस्तथाप्रवृत्तेरनाभिग्रहिकस्य संभवादनाभिग्रहिकत्वमेव तस्य देशनायोग्यत्वे शोभननिबन्धनमित्यापन्नम् ।
इत्थं च "अनाभोगतोऽपि मार्गगमनमेव सदन्धन्यायेनेत्यध्यात्मचिन्तकाः" [प० ११६ B] इति ललितविस्तरावचनानुसारेण यद्यनाभोगवान् मिथ्यादृष्टिरपि मिथ्यात्वमन्दतोद्भूतमाध्यस्थ्यतत्त्वजिज्ञासादिगुणयोगान्मार्गमेवानुसरति, तर्हि तद्विशेषगुणयोगादनाभिग्रहिके तु सुतरां धर्मदेशनायोग्यत्वमितिभावः । इति धर्मदेशनार्ह उक्तः ॥१८॥ अथ तत्प्रदानविधिमाह -
सा च संवेगकृत्कार्या, शुश्रूषोर्मुनिना पर ।
बालादिभावं संज्ञाय, यथाबोधं महात्मना ॥१९॥ 'सा च' देशना 'संवेगकृत्' संवेगकारिणी । संवेगलक्षणं चेदम् - "तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे, देवे रागद्वेषमोहादिमुक्ते ।
साधौ सर्वग्रन्थसन्दर्भहीने, संवेगोऽसौ निश्चलो योऽनुरागः" ॥१॥[ ] इति । 'मुनिना' गीतार्थेन साधुनाऽन्यस्य धर्मोपदेशेऽनधिकारित्वात् । यथोक्तं निशीथे"संसारदुक्खमहणो, विबोहणो भवियपुंडरीयाणं ।
धम्मो जिणपण्णत्तो, पकप्पजइणा कहेअव्वो त्ति" ॥[ ] 'प्रकल्पयतिना' इति अधीतनिशीथाध्ययनेन । 'परा' शेषतीर्थान्तरीयधर्माति१. विशिष्टतर उक्त० इति योगदृष्टिस०वृत्तौ गा० १५ ॥
D:\new/d-1.pm5\3rd proof