SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आदिधार्मिकस्य देशनायोग्यत्वम्-श्लो० १८॥] [२७ "अचरमपरिअडेसुं , कालो भवबालकालमो भणिओ। चरमो अ धम्मजुव्वणकालो तह चित्तभेओ त्ति ॥१॥[चरमावर्त्तविं-१९] ता बीअपुव्वकालो, णेओ भवबालकाल एवेह। इअरो उ धम्मजुव्वणकालो विहिलिंगगम्मु त्ति" ॥२॥[वि.वि./५-१६] ननु- "गलमच्छभवविमोअगविसन्नभोईण जारिसो एसो।। मोहा सुहो वि असुहो, तप्फलओ एवमेसो त्ति ॥१॥ [ उ.प./गा. १८८] इति श्रीहरिभद्रवचनानुसारेण विपर्यासयुक्तत्वान्मिथ्यादृशां शुभपरिणामोऽपि फलतोऽशुभ एवेति कथमादिधार्मिकस्य देशनायोग्यत्वमित्याशङ्कायामाह-'मध्यस्थत्वाद्' इति रागद्वेषरहितत्वात् पूर्वोक्तगुणयोगादेव माध्यस्थ्योपसंपत्तेरित्यर्थः । मध्यस्थस्यैव चागमेषु धर्माहत्वप्रतिपादनात् । यतः - "रत्तो १ दुट्ठो २ मूढो ३, पुट्वि वुग्गहिओ अ ४ चत्तारि । एए धम्माणरहा, धम्मारहा उ मज्झत्थो" ॥१॥ [गा.स./५९५ ] त्ति । श्रीहारिभद्रवचनं तु कदाग्रहग्रस्ताभिग्रहिकमाश्रित्येति न विरोधः । इदमत्र हृदयम् – यः खलु मिथ्यादृशामपि केषाञ्चित्स्वपक्षनिबद्धोद्धरानुबन्धानामपि प्रबलमोहत्वे सत्यपि कारणान्तरादुपजायमानो रागद्वेषमन्दतालक्षण उपशमो भूयानपि दृश्यते स पापानुबन्धिपुण्यहेतुत्वात् पर्यन्तदारुण एव, तत्फलसुखव्यामूढानां तेषां पुण्याभासकर्मोपरमे नरकादिपातावश्यम्भावादित्यसत्प्रवृत्तिरेवायम् , यश्च गुणवत्पुरुषप्रज्ञापनार्हत्वेन जिज्ञासादिगुणयोगान्मोहापकर्षप्रयुक्तरागद्वेषशक्तिप्रतिघातलक्षण उपशमः, स तु सत्प्रवृत्तिरेवाग्रहनिवृत्तेः सदर्थपक्षपातसारत्वादिति । नन्वेवमपि स्वागमानुसारिण आदिधार्मिकस्योपपन्नं माध्यस्थ्यम् , परं तस्य विचित्राचारत्वेन भिन्नाचारस्थितानां तेषां स्वस्वमतनिष्ठानां कथं तदुपपद्यते ? तदभावे च कथं देशनायोग्यत्वम् ? इत्यत्राह –'योगेत्यादि' । यद्यस्माद्धेतोः, तस्येति शेषः 'योगदृष्ट्युदयात्' योगदृष्टिप्रादुर्भावात् 'आदिमं' 'गुणस्थानं' 'सार्थम्' अन्वर्थं भवति । अयं भाव:-मिथ्यादृष्टयोऽपि परमार्थगवेषणपरा: सन्तः पक्षपातं परित्यज्याद्वेषादिगुणस्थाः खेदादिदोषपरिहाराद्यदा संवेगतारतम्यमाप्नुवन्ति । तदा मार्गाभिमुख्यात् तेषामिक्षुरस-कक्कब १. भवकालबाल-C.P.L. || २. इति-मु० L.C. नास्ति ॥ ३. सर्वोक्त० मु० ॥ ४. एए धम्माणरिहा धम्मे अरिहो उ मज्झत्थो-मु० ॥ ५. सत्प्रवृत्तिहेतुरेव-P.L. || D:\new/d-1.pm53rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy