________________
२६]
“णिच्छयओ पुण एसो, विन्नेओ गंठिभे अकालंमि । एमि विहिंसयपालणाउ आरोग्गमेयाउ ॥२॥ [ उ.प./गा. ४३३ ]
एतद्वृत्तिर्यथा - घनं मिथ्यात्वं यत्र स तथा, कालोऽचरमावर्त्तलक्षणो 'अत्र' वचनौषधप्रयोगे ‘अकालस्तु' अनवसर एव भवति विज्ञेयः । चरमावर्त्तलक्षणस्तु तथाभव्यत्वपरिपाकतो बीजाधानबीजोद्भेदबीजपोषणादिषु स्यादपि काल इति । अत एवाह - 'कालस्तु' अवसरः पुनरपुनर्बन्धकप्रभृतिस्तत्रादिशब्दान्मार्गाभिमुखमार्गपतितौ गृह्येते । तत्र मार्गश्चेतसोऽवक्रगमनं भुजङ्गनलिकायामतुल्यो विशिष्टगुणस्थानावाप्तिप्रवणः स्वरसवाही क्षयोपशमविशेषो हेतुस्वरूपफलशुद्ध्यभिमुख इत्यर्थस्तत्र पतितो भव्यविशेषो मार्गपतित इत्युच्यते । तदादिभावापन्नश्च मार्गाभिमुख इति । एतौ चरमयथाप्रवृत्तकरणभागभाजावेव ज्ञेयौ । अपुनर्बन्धकोऽपुनर्बन्धककालः प्रभृतिर्यस्य स तथा, धीरैर्निर्दिष्टो व्यवहारत इति |१|
[ धर्मसंग्रहः - प्रथमाधिकारः
निश्चयतस्तु कालो ग्रन्थिभेदकाल एव, यस्मिन् कालेऽपूर्वकरणाऽनिवृत्तिकरणाभ्यां ग्रन्थिभिन्नो भवति तस्मिन्नेवेत्यर्थः । यतोऽस्मिन् विधिनाऽवस्थोचितकृत्यकरणलक्षणेन सदा सर्वकालं या पालना वचनौषधस्य तया कृत्वाऽऽरोग्यं संसारव्याधिरोधलक्षणम्, एतस्माद्वचनौषधप्रयोगाद्भवति । अपुनर्बन्धकप्रभृतिषु वचनप्रयोगः क्रियमाणोऽपि न तथासूक्ष्मबोधविधायकोऽनाभोगबेहुलत्वात् तत्कालस्य । भिन्नग्रन्थ्यादयस्तु व्यावृत्तमोहत्वेनातिनिपुणबुद्धितया तेषु २ कृत्येषु वर्त्तमानास्तत्कर्मव्याधिसमुच्छेदका जायन्त इति । ग्रन्थिभेदमेव पुरस्कुर्वन्नाह - " इयरा वि हंदि एयंमि, एस आरोग्गसाहगो चेव । पुग्गलपरिअट्टद्धं, जमूणमेअंमि संसारो” ॥१॥ [ उ.प./गा.४३४]
व्याख्या –‘इतरथापि’ विधेः सदापालनमन्तरेणापि, हन्दीति पूर्ववत्, 'एतस्मिन् ' ग्रन्थिभेदे कृते सति 'एष' वचनौषधप्रयोगः 'आरोग्यसाधकश्चैव' भावारोग्यनिष्पाद एव संपद्यते । तथा च पठ्यते -
4
'लब्ध्वा मुहूर्तमपि ये परिवर्जयन्ति, सम्यक्त्वरत्नमनवद्यपदप्रदायि । यास्यन्ति तेऽपि न चिरं भववारिराशौ, तद्विभ्रतां चिरतरं किमिहास्ति वाच्यम्" ॥१॥[ ] अत्र हेतुमाह – 'पुद्गलपरावर्त्तार्द्धं, यावत् , यद्यस्मादूर्ध्वं न किञ्चिद्धीनं 'एतस्मिन्’ ग्रन्थिभेदे कृते सति ‘संसारो' जीवानां तीर्थकराद्याशतनाबहुलानामपीति । विंशिकायामपि -
—
१. कालो उ-इति उपदेशपदे । २. सतिवालणाउ - इति उपदेशपदे ॥ ३. भुजङ्गगमननलिका इति उपदेशपदवृत्तौ प० २३५A ।। ४. एतौ च चरम० इति उपदेशपदवृत्तौ प० २३५A ॥ ५. बहुलत्वात्तत्तत्कालस्यमु०॥६. भ्राम्यन्ति-इति उपदेशपदवृत्तौ ।। ७. यद्यस्मादूनं किञ्चिद्धीनं-इति उपदेशपदवृत्तौ ॥
D:\new/d-1.pm5\3rd proof