________________
आदिधार्मिकस्वरूपम्-श्लो० १७।१८॥]
"कुठारादिप्रवृत्तिरपि रूपनिर्माणप्रवृत्तिरेव ।" []
तद्वदादिधार्मिकस्य धर्मे कात्स्र्त्स्न्येन तद्गामिनी न तद्वाधिनीतिहार्द्दः तत्त्वाविरोधकं हृदयमस्य, ततः समन्तभद्रता, तन्मूलत्वात् सकलचेष्टितस्य, एवमतोऽपि विनिर्गतं तत्तद्दर्शनानुसारतः सर्वमिह योज्यं सुप्तमण्डितप्रबोधदर्शनादि । न ह्येवं प्रवर्त्तमानो नेष्टसाधक इति । भग्नोऽप्येतद्यत्नलिङ्गोऽपुनर्बन्धक इति तं प्रत्युपदेशसाफल्यम् । नानिवृत्ताधिकारायां प्रकृतावेवम्भूत इति कापिलाः न अनवाप्तभवविपाक इति च सौगताः, अपुनर्बन्धकास्त्वेवंभूता इति जैना इति" । [ ललितविस्तरायां प्रान्ते ]
अपुनर्बन्धकलक्षण चेदं प्रसङ्गेनात्रावसेयम् -
1
[ २५
"पावं ण तिव्वभावा, कुणइ ण बहु मन्नई भवं घोरं ।
उचिअट्ठिनं च सेवइ, सव्वत्थ वि अपुणबंधो त्ति" ॥१॥ [ पञ्चा. ३४, यो.श.गा. १३]
एतद्वृत्तिर्यथा - " पापमशुद्धं कर्म तत्कारणत्वाद्धिंसाद्यपि पापं तत्, 'न' नैव, तीव्रभावाद् गाढसङ्क्लिष्टपरिणामात्, 'करोति' अत्यन्तोत्कटमिथ्यात्वादिक्षयोपशमेन लब्धात्मनैर्मल्यविशेषत्वात्, तीव्रेतिविशेषणादापन्नम् अतीव्रभावात् करोत्यपि तथाविधकर्मदोषात् । तथा ‘न बहु मन्यते' न बहुमानविषयीकरोति, 'भवं' संसारं, 'घोरं रौद्रं, घोरत्वावगमात्, तथा उचितस्थितमनुरूपप्रतिपत्तिं, चशब्दः समुच्चये, 'सेवते' भुजते कर्मलाघवात्, सर्वत्राप्यास्तामेकत्र देशकालावस्थापेक्षया समस्तेष्वपि देवाऽतिथि- मातापितृप्रभृतिषु, मार्गानुसारिताभिमुखत्वे मयूरशिशुदृष्टान्ताद् । 'अपुनर्बन्धक' उक्तनिर्वचनो जीव:, 'इति' एवंविधक्रियालिङ्गो भवतीत्यलं प्रसङ्गेन" [ पञ्चाशकवृत्तिः प० ५४ ] ||१७|| अथोक्तस्वरूपस्यादिधार्मिकस्य सद्धर्मदेशनायोग्यत्वं दर्शयति
स धर्मदेशनायोग्यो, मध्यस्थत्वाज्जिनैर्मतः ।
योगदृष्ट्युदयात् सार्थं, यद् गुणस्थानमादिमम् ॥१८॥
'सः' पूर्वोक्तगुणसम्पत्त्या प्रसिद्ध आदिधार्मिको 'धर्मदेशनायोग्य ः ' लोकोत्तरधर्मप्रज्ञापनार्हः ‘जिनैः, अर्हद्भिः 'मतः' उपदिष्टः । कालतश्चायं चरमावर्त्तवत्र्त्येवेत्यनुक्तमपि ज्ञेयम् । यत उक्तम् उपदेशपदे -
"घणमिच्छत्तो कालो, एत्थ अकालो उ होइ णायव्वो ।
कालो अ अपुणबंधगपभिई धीरेहिं णिद्दिट्टो " ॥१॥ [ उ.प./गा.४३२ ]
१. ०र्द्दम्-मु० । ०र्घाः-C. P. ललितवि० । हार्छा - L ॥ २. ०त - ल०वि० ॥ ३. ०ग्यः-मु० ॥ ४. ०हि-मु० ॥
D:\new/d-1.pm5\ 3rd proof