SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ २४] [धर्मसंग्रहः-प्रथमाधिकार: अथ पूर्वोक्तगुणवत एव संज्ञाविशेषविधि तदवस्थाविशेषविधिं चाह - स आदिधार्मिकश्चित्रस्तत्तत्तन्त्रानुसारतः । इह तु स्वागमापेक्षं, लक्षणं परिगृह्यते ॥१७॥ ‘सः' पूर्वोक्तगुणैरुत्तरोत्तरगुणवृद्धियोग्यतावान् ‘आदिधार्मिकः' प्रथममेवारब्धस्थूलधर्माचारत्वेनादिधार्मिकसंज्ञया प्रसिद्धः, स च तानि २ तन्त्राणि शास्त्राणि तदनुसारतश्चित्रो विचित्राचारो भवति । भिन्नाचारस्थितानामप्यन्तःशुद्धिमतामपुनर्बन्धकत्वाविरोधात् । अपुनर्बन्धकस्य हि नानास्वरूपत्वात् तत्तत्तन्त्रोक्ताऽपि मोक्षार्था क्रिया घटते । तदुक्तं योगबिन्दौ - "अपुनर्बन्धकस्यैवं, सम्यग् नीत्योपपद्यते । तत्तत्तन्त्रोक्तमखिलमवस्थाभेदसंश्रयाद्"॥१॥[यो.बि./श्लो.२५१ ] इति । 'इह तु' प्रक्रमे 'स्वागमापेक्षं' स्वागमानुसारि लक्षणं' व्यञ्जकं प्रक्रमादादिधार्मिकस्य 'परिगृह्यते' आधीयते । यो ह्यन्यैः शिष्टबोधि-सत्त्वनिवृत्त-प्रकृत्याधिकारादिशब्दैरभिधीयते स एवास्माभिरादिधार्मिकाऽपुनर्बन्धकादिशब्दैरिति भावः । लक्षणमित्यत्रैकवचनं जात्यपेक्षम् , तल्लक्षणसम्पादनविधिश्चायमुक्तो ललितविस्तरायाम् - "परिहर्त्तव्योऽकल्याणमित्रयोगः, सेवितव्यानि कल्याणमित्राणि, न लङ्घनीयोचितस्थितिः, अपेक्षितव्यो लोकमार्गः, माननीया गुरुसंहतिः, भवितव्यमेतत्तन्त्रेण, प्रवर्तितव्यं दानादौ, कर्तव्योदारपूजा भगवताम् , निरूपणीयः साधुविशेषः, श्रोतव्यं विधिना धर्मशास्त्रम् , भावनीयं महायत्नेन, प्रवर्तितव्यं विधानतः, अवलम्बनीयं धैर्यम् , पर्यालोचनीया आयतिः, अवलोकनीयो मृत्युः, भवितव्यं परलोकप्रधानेन, सेवितव्यो गुरुजनः, कर्त्तव्यं योगपटदर्शनम् , स्थापनीयं तद्रूपादि चेतसि, निरूपयितिव्या धारणा, परिहर्त्तव्यो विक्षेपमार्गः, यतितव्यं योगसिद्धौ, कारयितव्या भगवत्प्रतिमा, लेखनीयं भुवनेश्वरवचनम् , कर्त्तव्यो मङ्गलजापः, प्रतिपत्तव्यं चतुःशरणम् , गर्हितव्यानि दुष्कृतानि अनुमोदनीयं कुशलम् , पूजनीया मन्त्रदेवताः श्रोतव्यानि सच्चेष्टितानि, भावनीयमौदार्यम् , वर्तितव्यमुत्तमज्ञाने( ते )न । एवम्भूतस्य येह प्रवृत्तिः सा सर्वैव साध्वी । मार्गानुसारी ह्ययं नियमादपुनर्बन्धकादिः । तदस्यैवम्भूतगुणसम्पदा( दो )भावात् , अत आदित आरभ्यास्य प्रवृत्तिः सत्प्रवृत्तिरेव नैगमानुसारेण चित्रापि प्रस्थकप्रवृत्तिकल्पा । तदेतदधिकृत्याहुः - १. प्रथममेवारब्धं-P.L. || २. ०ज्ञानेन-C.P.L. I ज्ञातेन-इति ललितविस्तरायाम् ।। ३. सम्यदो भावात्-ल० वि० । सम्पदाभावात्-P.L.C. ।। D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy