SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ धर्मबीजानि-श्लो० १६॥] [२३ उपादेयधियाऽत्यन्तं, संज्ञाविष्कम्भणान्वितम् । फलाभिसन्धिरहितं, संशुद्धं, ह्येतदीदृशम् ॥२॥ [ यो.दृ.स./श्लो.२५ ] आचार्यादिष्वपि ह्येतद्विशुद्ध भावयोगिषु । वैयावृत्त्यं च विधिवच्छुद्धाशयविशेषतः ॥३॥ [ यो.दृ.स./श्लो.२६ ] भवोद्वेगश्च सहजो, द्रव्याभिग्रहपालनम् । तथा सिद्धान्तमाश्रित्य, विधिना लेखनादि च ॥४॥ [यो.इ.स./श्लो.२७ ] लेखनापूजनाभ्यां च, श्रवणं वाचनोद्ग्रहः । प्रकाशनाऽथ स्वाध्यायश्चेतना भावनेति च ॥५॥ [ यो.दृ.स./श्लो.२८ ] दुःखितेषु दयाऽत्यन्तमद्वेषो गुणवत्सु च । औचित्यासेवनं चैव, सर्वत्रैवाविशेषतः ॥६॥ [ यो.ह.स./श्लो.२९ ] इति । 'तस्मिन्' पूर्वोक्तगुणभाजने 'गेहिनि' गृहस्थे 'प्ररोहन्ति' प्रकर्षेण स्वफलावन्ध्यकारणत्वेन रोहन्ति धर्मचिन्तादिलक्षणङ्करादिमन्ति जायन्ते । उक्तं च - "वपनं धर्मबीजस्य, सत्प्रशंसादि तद्गतम् । तच्चिन्ताद्यङ्करादि स्यात् , फलसिद्धिस्तु निर्वृतिः" ॥१॥[ ] चिन्तासच्छ्रुत्यनुष्ठानदेवमानुषसम्पदः । क्रमेणाङ्करसत्काण्डनालपुष्पसमा मताः ॥२॥[ ] कीदृशानि सन्ति प्ररोहन्ति ? इत्याह –'विधिना' देशनार्हबालादिपुरुषौचित्यलक्षणेन 'उप्तानि' निक्षिप्तानि, अनिक्षिप्तेषु हि तेषु कथमपि धर्मस्यानुदयात् । यत उपदेशपदे - __ "अकए बीजक्खेवे, जहा सुवासे वि न भवई सस्सं । ___तह धम्मबीजविरहे, न सुस्समाए वि तस्सस्सं" ॥ [ उ.प.गा./२२४] ति ।। यथेति दृष्टान्तार्थः 'बीजानि' शाल्यादीनि 'विशुद्धायाम्' अनुपहतायां 'भुवि' पृथिव्यां विधिनोप्तानि सन्ति, प्रायोग्रहणादकस्मादेव पक्वतथाभव्यत्वे क्वचिन्मरुदेव्यादावन्यथाभावेऽपि न विरोध इति ॥१६॥ १. लेखनापूजनादानं श्रवणं-इति योगदृष्टिसमुच्चये ॥ २. स्वाध्यायश्चिन्तना-इति योगदृष्टिसमुच्चये ॥ ३. दयात्यन्तं न द्वेषो L || ४. औचित्यात् सेवनं-इति योगदृष्टिसमुच्चये ।। ५. ०दा०L.P.C. || D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy