________________
२२]
[धर्मसंग्रहः-प्रथमाधिकारः नवकाशात् । हन्तैवं निरुपचरितो भावाभ्यासोऽप्रमत्तसंयतस्यैव, प्रमत्तसंयतदेशविरताविरतसम्यग्दृशां त्वापेक्षिकत्वेनौपचारिक एव प्राप्त इत्यपुनर्बन्धकस्यैवौपचारिक इति कथं युज्यते ? इति चेद् , यथा पर्यवनयव्युत्क्रान्तार्थग्राही द्रव्योपयोगः परमाणावेवापश्चिमविकल्पनिर्वचनः, तथा निश्चयनयव्युत्क्रान्तार्थग्राही व्यवहारनयोऽप्यपुनर्बन्धक एव तथेत्यभिप्रायादिति गृहाण । अत एव - "अपुनर्बन्धकस्यायं, व्यवहारेण तात्त्विकः ।
अध्यात्मभावनारूपो, निश्चयेनोत्तरस्य तु" ॥ इत्युक्तं योगबिन्दौ । [ श्लो.३६९] __ यत्त्वत्रापुनर्बन्धकस्याप्युपलक्षणत्वात् सम्यग्दृष्ट्यादीनामपि वृत्तौ ग्रहणं कृतम् , तदपेक्षयैवेति तत्त्वम् । तदयं परमार्थ:-निश्चयेनानुपचरितं धर्मानुष्ठानमप्रमत्तसंयतानामेव, प्रमत्तसंयतादीनां त्वपेक्षया निश्चयव्यवहाराभ्याम् , अपुनर्बन्धकस्य तु व्यवहारेणैव, तेन सामान्यतो गृहिधर्मो व्यवहारेणापुनर्बन्धकापेक्षयैवेति स्थितमिति] ॥१४॥ सप्रभेदं सामान्यतो गृहिधर्ममभिधाय साम्प्रतं तत्फलं दर्शयन्नाह -
एतद्युतं सुगार्हस्थ्यं, यः करोति नरः सुधीः ।
लोकद्वयेऽप्यसौ भूरि, सुखमाप्नोत्यनिन्दितम् ॥१५॥ एतेनानन्तरोदितेन सामान्यगृहिधर्मेण संयुतं सहितं 'सुगार्हस्थ्यं' शोभनगृहस्थभावं 'यः' कश्चित् पुण्यसम्पन्न: ‘सुधीः' प्रशस्तबुद्धिः 'नरः', पुमान् ‘करोति' विदधाति 'असौ' सुगार्हस्थ्यकर्ता 'लोकद्वयेऽपि' इहलोकपरलोकरूपे, किं पुनरिहलोक एवेत्यपिशब्दार्थः 'अनिन्दितं' शुभानुबन्धितयाऽगर्हणीयम् , 'भूरि' प्रचुरं 'सुखं' शर्म 'आप्नोति' लभते ॥१५॥ ___ इति प्रतिपादितं सामान्यतो गृहिधर्मफलम् , अथ एतद्गुणयुक्तस्य पुंसः सदृष्टान्तमुत्तरोत्तरगुणवृद्धियोग्यतां दर्शयति -
तस्मिन् प्रायः प्ररोहन्ति, धर्मबीजानि गहिनि ।
विधिनोप्तानि बीजानि, विशुद्धायां यथा भुवि ॥१६॥ 'प्रायो' बाहुल्येन 'धर्मबीजानि' लोकोत्तरधर्मकारणानि, तानि चामूनि योगदृष्टिसमुच्चये प्रतिपादितानि -
"जिनेषु कुशलं चित्तं, तन्नमस्कार एव च ।
प्रणामादि च संशुद्धं, योगबीजमनुत्तमम्' ॥१॥ [ यो.दृ.स./श्लो.२३] १. सं० मु० नास्ति ।।
D:\new/d-1.pm5\3rd proof