SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ३५ मार्गानुसारिगुणा:-श्लो० ५तः१४॥] [२१ एअं च ण जुत्तिखमं, णिच्छयणयजोगओ जओ विसए । भावेण य परिहीणं, धम्माणुढाणमो किह णु ॥२॥ [ उप.प.गा./९५०] ववहारओ उ जुज्जइ, तहा तहा अपुणबंधगाईसु त्ति" [ उप.प.गा./९५१पू.] एतदर्थो यथा -अन्ये आचार्या, ब्रुवते, त्रिविधं त्रिप्रकारं सततविषयभावयोगतः योगशब्दस्य प्रत्येकमभिसम्बन्धात् सततादिपदानां सतताभ्यासादौ लाक्षणिकत्वात् सतताभ्यास-विषयाभ्यास-भावाभ्यासयोगादित्यर्थः । नवरं केवलम् , धर्मेऽनुष्ठानं यथोत्तरं प्रधानरूपं तुरेवकारार्थः यद्यदुत्तरं तदेव ततः प्रधानमित्यर्थः । तत्र सतताभ्यासो नित्यमेव मातापितृविनयादिवृत्तिः, विषयाभ्यासो मोक्षमार्गनायकेऽर्हल्लक्षणे पौन:पुन्येन पूजनादिप्रवृत्तिः, भावाभ्यासो भावानां सम्यग्दर्शनादीनां भवोद्वेगेन भूयो भूयः परिशीलनम् ॥१॥ ___ एतच्च द्विविधमनुष्ठानम् , न युक्तिक्षमं नोपपत्तिसहम् , निश्चयनययोगेन निश्चयनयाभिप्रायेण, यतो मातापित्रादिविनयस्वभावे सतताभ्यासे सम्यग्दर्शनाद्यनाराधनारूपे धर्मानुष्ठानं दूरापास्तमेव, विषय इत्यनन्तरम् अपिगम्यः, विषयेऽपि अर्हदादिपूजालक्षणे विषयाभ्यासेऽपि, भावेन भववैराग्यादिना परिहीणं धर्मानुष्ठानम् , कथं नु? न कथञ्चिदित्यर्थः, उकारः प्राकृतत्वात् , परमार्थोपयोगरूपत्वाद् धर्मानुष्ठानस्य, निश्चयनयमते भावाभ्यास एव धर्मानुष्ठानं नान्यद्वयमिति निगर्वः । ____ व्यवहारतस्तु व्यवहारनयादेशात्तु । युज्यते द्वयमपि, तथा २ तेन २ प्रकारेणापुनबन्धकादिषु अपुनर्बन्धकप्रभृतिषु । तत्रापुनर्बन्धक: पापं न तीव्रभावात् करोतीत्याधुक्तलक्षणः, आदिशब्दादपुनर्बन्धकस्यैव विशिष्टोत्तरावस्थाविशेषभाजौ मार्गाभिमुखमार्गपतितौ अविरतसम्यग्दृष्ट्यादयश्च गृह्यन्त इति । ननु तथापि धर्मसंग्रहिण्यां निश्चयनयमतेन शैलेशीचरमसमय एव धर्म उक्तः, तत्पूर्वसमयेषु तु तत्साधनस्यैव सम्भवः - "सो उभयक्खयहेऊ, सीलेसीचरमसमयभावी जो। सेसो पुण णिच्छयओ, तस्सेव पसाहगो भणिउ'॥ [ध.सं.गा./२६ ] त्ति वचनात् । ___ अत्र तु निश्चयतो धर्मानुष्ठानसम्भवश्चाप्रमत्तसंयतानामेवेति कथं न विरोध: ? इति चेत् , न, धर्मसंग्रहिण्यां धर्मस्यैवाभिधित्सितत्वेन तत्र धर्मपदव्युत्पत्तिनिमित्तग्राहकैवम्भूतरूपनिश्चयनयस्य शैलेशीचरमसमय एव प्रवृत्तिसम्भवात् । अत्र तु धर्मानुष्ठानपदव्युत्पत्तिनिमित्तग्राहकैवम्भूतरूपनिश्चयनयस्याप्रमत्तसंयत एव प्रवृत्तिसम्भवेन विरोधलेशस्याप्य १. ०न्ति-मु० ॥ २. भणन्ति-मु० ॥ ३. ततं (तत्तदेव) प्रधान० मु० ॥ ४. ओकार:-मु० ॥ ५. (तु)-मु० । तु-सि० नास्ति ।। D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy