________________
२०]
[धर्मसंग्रहः-प्रथमाधिकारः ___तथा यथार्हा या यस्योचिता लोकयात्रा लोकचित्तानुवृत्तिरूपो व्यवहारः सा विधेया । यथार्हलोकयात्रातिक्रमे हि लोकचित्तविराधनेन तेषामात्मन्यनादेयतया(ता) परिणामापादनेन स्वलाघवमेवोत्पादितं भवति । एवं चान्यस्यापि स्वगतस्य सम्यगाचारस्य लघुत्वमेवोपनीतं स्यादिति । उक्तं च - "लोकः खल्वाधारः, सर्वेषां धर्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं, धर्मविरुद्धं च संत्याज्यम्" ॥१॥ [ प्रश.र./श्लो.१३१] ३२॥
तथा परोपकृतौ परोपकारे पाटवं पटुत्वम् , परोपकारपरो हि पुमान् सर्वस्य नेत्रामृताञ्जनम् ३३। ____ तथा हीर्लज्जा वैयात्याभावः इतियावत् । लज्जावान् हि प्राणप्रहाणेऽपि न प्रतिज्ञातमपजहाति । यथाह - "लज्जां गुणौघजननी जननीमिवार्थामत्यन्तशुद्धहृदयामनुवर्तमानाः । तेजस्विनःसुखमसूनपिसंत्यजन्ति,सत्यस्थितिव्यसनिनोन पुनः प्रतिज्ञाम्"॥१॥[ ]३४॥
तथा सौम्यता अक्रूराकारः, क्रूरो हि लोकस्योद्वेगकारणं सौम्यश्च सर्वजनसुखाराध्यो भवतीति ३५ ॥१६॥ ___ उक्तः सप्रभेद: सामान्यतो गृहिधर्मः । अत्रेदमवधेयम्-[१ न्यायाजितधनसुस्थानगृहनिवेशनमातापित्रर्चनादीनां सिद्धान्ते कर्त्तव्यताबोधकप्रत्यक्षवचनानुपलम्भेन धर्मलक्षणस्य योजयितुमशक्यत्वेऽपि तत्तदधिकारिशिष्टाचारमहिम्ना तादृशरविधिवचनानामुन्नयनान्नासंलग्नता दोष इति । एवमप्यप्राप्तांश एव विधिप्रवृत्तेः प्राप्तेषु धनादिषु न्यायार्जितत्वाद्यंशानामेव विधेयत्वाद् विशिष्टे कथं धर्मत्वम् ? विध्यस्पर्शादिति चेत् ? सत्यम् , अनङ्ताविधेयतयोविषयताविशेषयोः प्राप्त्यप्राप्तिनियत्वेऽपि इष्टसाधनत्वादिरूपविध्यर्थस्य विशिष्ट एवं सम्भवात् । कथं तर्हि सतताभ्यास-विषयाभ्यासभावाभ्यासानां मध्ये भावाभ्यासस्यैव धर्मानुष्ठानत्वमनुमतमुपदेशपदे, सतताभ्यासविषयाभ्यासयोश्च निषिद्धम् इति चेत् ? न कथञ्चित् सम्यग्दर्शनाद्यनुगतभावग्राहिनिश्चयनयाभिप्रायेणैव तन्निषेधाद् , अपुनर्बन्धकाधुचितभावलेशग्राहिव्यवहारनयाभिप्रायेण तत्समर्थनादेव । तथा च तद्ग्रन्थः - "अन्ने भणंति तिविहं, सययविसयभावजोगओ णवरं । धम्ममि अणुट्ठाणं, जहुत्तरपहाणरूवं तु ॥१॥ [उ.प./गा.९४९]
१. ०नादेयतया-P.L.C. | ०नादेयता-इति धर्मबिन्दुवृत्तौ प० ४६।।
D:\new/d-1.pm53rd proof