________________
३५ मार्गानुसारिगुणा:-श्लो० ५तः१४॥]
[१९ भवत्यास्पदमापदाम् । न च तस्य धनं धर्मः शरीरं वा यस्य कामेऽत्यन्ताशक्तिः । धर्मकामातिक्रमाद् धनमुपाजितं परे अनुभवन्ति । स्वयं तु परं पापस्य भाजनम् , सिंह इव सिन्धुरवधात् । अर्थकामातिक्रमेण च धर्मसेवा यतीनामेव धर्मो न गृहस्थानाम् । न च धर्मबाधयार्थकामौ सेवेत । बीजभोजिनः कुटुम्बिन इव नास्त्यधार्मिकस्यायत्यां किमपि कल्याणम् । स खलु सुखी योऽमुत्रसुखाविरोधेनेहलोकसुखमनुभवति । तस्माद्धर्माबाधनेन कामार्थयोर्मतिमता यतितव्यम् । एवमर्थबाधया धर्मकामौ सेवमानस्य ऋणाधिकत्वम् , कामबाधया धर्मार्थो सेवमानस्य गार्हस्थ्याभावः स्यात् ।
एवं च तादात्विक -मूलहर-कदर्येषु धर्मार्थकामानामन्योऽन्यबाधा सुलभैव । तथाहियः किमप्यसञ्चित्योत्पन्नमर्थमपव्येति स तादात्विकः, यः पितृपैतामहमर्थमन्यायेन भक्षयति स मूलहरः, यो भृत्यात्मपीडाभ्यामर्थं सञ्चिनोति न तु क्वचिदपि व्ययते स कदर्यः । तत्र तादात्विक-मूलहरयोरर्थभ्रंशेन धर्म कामयोर्विनाशान्नास्ति कल्याणम् , कदर्यस्य त्वर्थसङ्ग्रहो राज-दायाद-तस्कराणां निधिः न तु धर्मकामयोर्हेतुरिति । अनेन त्रिवर्गबाधा गृहस्थस्य कर्तुमनुचितेति प्रतिपादितम् , यदा तु दैववशाद् बाधा सम्भवति तदोत्तरोत्तरबाधायां पूर्वस्य पूर्वस्य बाधा रक्षणीया । तथाहि-कामबाधायां धर्मार्थयोर्बाधा रक्षणीया, तयोः सतोः कामस्य सुकरोत्पादत्वात् , कार्मार्थयोस्तु बाधायां धर्मो रक्षणीयः धर्ममूलत्वादर्थकामयोः । उक्तं च -
"धर्मश्चेन्नावसीदेत, कपालेनापि जीवतः ।
आढ्योऽस्मीत्यवगन्तव्यं, धर्मवित्ता हि साधवः" ॥१॥[ ] २९ ॥१३॥ तथा प्रतिषिद्धो देशोऽदेशः, प्रतिषिद्धः कालोऽकालः, तयोरदेशाकालयोरचरणं चरणाभावः, अदेशाकालचारी हि चौरादिभ्योऽवश्यमुपद्रवमाप्नोति ३०।
तथा बलं शक्तिः, स्वस्य परस्य वा द्रव्य-क्षेत्र-काल-भावकृतं सामर्थ्यम् , अबलमपि तथैव, तयोर्विचारणं-पर्यालोचनम् । बलाबलपरिज्ञाने हि सर्वः सफल आरम्भः, अन्यथा तु विपर्ययः । यदाह -
"स्थाने शमवतां शक्त्या, व्यायाम वृद्धिरङ्गिनाम् ।
अयथाबलमारम्भो, निदानं क्षयसम्पदः" ॥१॥[ ] इति । अत एव च पठ्यते - "कः कालः ? कानि मित्राणि ? को देशः कौ व्ययागमौ ? । कश्चाहं ? का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥१॥"[ ] इति ३१।
D:\new/d-1.pm53rd proof