________________
१८]
[धर्मसंग्रहः-प्रथमाधिकार: अविशेषज्ञो हि नर: पशो तिरिच्येत, अथवा विशेषस्यात्मन एव गुणदोषाधिरोहलक्षणस्य ज्ञानम् । यदाह -
"प्रत्यहं प्रत्येवेक्षेत, नरश्चरितमात्मनः ।
किं नु मे पशुभिस्तुल्यं, किं नु सत्पुरुषैरिति !" ॥[ ] तच्च कदाचिदितरस्यापि भवतीत्यत आह –'अन्वहम्' इति निरन्तरमित्यर्थः २७।
तथा न विद्यते सततप्रवृत्तातिविशदैकाकारानुष्ठानतया तिथ्यादिदिनविभागो यस्य सोऽतिथिः । यथोक्तम् -
"तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना ।
अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः" ॥१॥[] साधुः शिष्टाचाररतः सकललोकाविगीतः, दीनो "दीङ्क्षये"[दिवादौ धा० १०१] इतिवचनात् क्षीणसकलधर्मार्थकामाराधनशक्तिः, तेषु प्रतिपन्नता प्रतिपत्तिरन्नपानादिरूपोपचार इतियावत् । कथं ? यथार्हम् औचित्यानतिक्रमेण *औचित्यं च यस्यातिथ्यादेरुत्तममध्यमजघन्यरूपाप्रतिपत्तिरित्यर्थः, तस्यानुल्लङ्घनेन, तदुल्लङ्घने हि शेषाः सन्तोऽपि गुणा असन्त इव भवन्ति । यदाह -*
"औचित्यमेकमेकत्र, गुणानां कोटिरेकतः।।
विषायते गुणग्राम, औचित्यपरिवर्जितः" ॥[ ] इति २८ ॥१२॥ तथा त्रिवर्गो धर्मार्थकामास्तत्र यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः, यतः सर्वप्रयोजनसिद्धिः सोऽर्थः, यत आभिमानिकरसानुविद्धा सर्वेन्द्रियप्रीतिः स कामः । ततोऽन्योऽन्यस्य परस्परस्याऽनुपघातेनापीडनेन त्रिवर्गस्यापि उक्तस्वरूपस्य न त्वेकैकस्येत्यपिशब्दार्थः, साधनं सेवनम् । त्रिवर्गसाधनविकलस्योभयभवभ्रष्टत्वेन जीवननैरर्थक्यात् । यदाह -
“यस्य त्रिवर्गशून्यानि, दिनान्यायान्ति यान्ति च ।
स लोहकारभ्रस्नेव, श्वसन्नपि न जीवति" ॥१॥[] तत्र धर्मार्थयोरुपघातेन तादात्विकविषयसुखलुब्धो वनगज इव को नाम न
१. विशेषमात्मन-इति योगशास्त्रवृत्तौ [प० १५७] ॥ २. ** चिह्नद्वयमध्यवर्ती पाठः मु० नास्ति । तुला-"तदौचित्यबाधनमुत्तममुनिदर्शनेनेति ॥४०|| तेषां देवादीनामौचित्यं-योग्यत्वं यस्य देवादेरुत्तममध्यमजघन्यरूपा या प्रतिपत्तिरित्यर्थः तस्य 'अबाधनम्' अनुल्लङ्घने शेषाः सन्तोऽपि गुणा असन्त इव भवन्ति यत उक्तम्-औचित्य"....धर्मबिन्दुवृत्तिः प० ११ A ॥
D:\new/d-1.pm5\3rd proof