________________
३५ मार्गानुसारिगुणा:-श्लो० ५तः१४॥]
[१७ प्रत्यहं धर्मश्रवणं चोत्तरोत्तरगुणप्रतिपत्तिसाधनत्वात्प्रधानमिति २२॥
तथा दया-दुःखितजन्तुदुःखत्राणाभिलाषः, दयालुहि सर्वसत्त्वहितकाङ्क्षितया परमयतनावान् सर्वमेव धर्मं क्षमादिसारमाराधयति । तदुक्तम् –“धर्मस्य दया मूलम्" [प्रशमरति का०/१६८] इत्यादि २३ । तथा अष्टभिर्बुद्धिगुणैर्योगः समागमः, बुद्धिगुणाः शुश्रूषादयः । ते त्वमी -
"शुश्रूषा श्रवणं चैव, ग्रहणं धारणं तथा।
ऊहोऽपोहोऽर्थविज्ञानं, तत्त्वज्ञानं च धीगुणाः" ॥१॥ [ आ.उ./श्लो.४३ ] तत्र शुश्रूषा-श्रोतुमिच्छा, श्रवणमाकर्णनम् , ग्रहणं-शास्त्रार्थोपादानम् , धारणम्अविस्मरणम् , ऊहो -विज्ञातमर्थमवलम्ब्य अन्येषु तथाविधेषु व्याप्त्या वितर्कणम् , अपोह -उक्ति-युक्तिभ्यां विरुद्धादर्थात् हिंसादिकात् प्रत्यपायसम्भावनया व्यावर्त्तनम् , अथवा ऊहः सामान्यज्ञानमपोहो विशेषज्ञानम् , अर्थविज्ञानमूहापोहयोगान्मोहसन्देहविपर्यासव्युदासेन ज्ञानम् , तत्त्वज्ञानमूहापोहविशुद्धमिदमित्थमेवेति निश्चयः । शुश्रूषादिभिर्हि उपाहितप्रज्ञाप्रकर्षः पुमान्न कदाचिदकल्याणमाप्नोति । एते च बुद्धिगुणा यथासंभवं द्रष्टव्याः २४
तथा गुणेषु सौजन्यौदार्य-धैर्य-दाक्षिण्य-स्थैर्य-प्रिय-प्रथमाभिभाषणादिषु स्वपरयोरुपकारकारणेष्वात्मधर्मेषु पक्षपातो बहुमानें तत्प्रशंसासाहाय्यदानादिनानुकूला प्रवृत्तिः । गुणपक्षपातिनो हि जीवा अवन्ध्यपुण्यबीजनिषेकेणेहामुत्र च गुणग्रामसम्पदमारोहन्ति २५। ॥११॥
तथा अनभिनिवेशोऽभिनिवेशराहित्यम् , अभिनिवेशश्च नीतिपथमनागतस्यापि पराभिभवपरिणामेन कार्यस्यारम्भः, स च नीचानां भवति । यदाह -
"दर्पः श्रमयति नीचान्निष्फलनयविगुणदुष्करारम्भैः ।
स्रोतोविलोमतरणव्यसनिभिरायस्यते मत्स्यैः" ॥१॥[] अनभिनिवेशश्च कादाचित्क: शाठ्यान्नीचानामपि सम्भवत्यत आह -'सदा' इति २६। तथा [वस्त्व] वस्तुनोः कृत्या कृत्ययोः स्वपरयोर्विशेषस्यान्तरस्य ज्ञानं निश्चयः ।
१. दया-मु० नास्ति ।। २. उपाहितप्रकर्षः-मु० । उपादितप्रकर्षः-P । उपाहितप्रज्ञाप्रकर्षणं प्रकर्षः L । उपाहितप्रज्ञाप्रकर्षः पुमान्न-इति योगशास्त्रवृत्तौ प० १५३ ॥ ३. ०न-धर्मबिन्दुवृत्तौ [प० ५७] योगशास्त्रवृत्तौ [प० १५७] च ॥ ४. वस्तुनो:-मु० L.P.C. । वस्त्ववस्तुनोः-इति योगशास्त्रवृत्तौ [प० १५८] ||
D:\new/d-1.pm53rd proof