________________
१६]
[धर्मसंग्रहः-प्रथमाधिकार: "उपदेशः शुभो नित्यं, दर्शनं धर्मचारिणाम् ।
स्थाने विनय इत्येतत्साधुसेवाफलं महत्" ॥१॥ इति [शास्त्र.वा./श्लो. ७] १८| तथा गर्हितेषु लोकलोकोत्तरयोरनादरणीयतया निन्दनीयेषु मद्यमांससेवनपररामाभिगमनादिपापस्थानेषु अप्रवृत्तिर्गाढं मनोवाक्कायानामनवतारः । आचारशुद्धौ हि सामान्यायामपि कुलाद्युत्पत्तौ पुरुषस्य माहात्म्यमुपपद्यते । यथोक्तम् - "न कुलं हीनवृत्तस्य, प्रमाणमिति मे मतिः ।
अन्त्येष्वपि हि जातानां, वृत्तमेव विशिष्यते" ॥१॥[ ] इति १९।
तथा भर्त्तव्यानां भर्तुं योग्यानां मातापितृगृहिण्यपत्यसमाश्रितस्वजनलोकतथाविधभृत्यप्रभृतीनां भरणं पोषणम् , तत्र त्रीण्यवश्यं भर्त्तव्यानि, मातापितरौ सती भार्या अलब्धबलानि चापत्यानीति । यत उक्तम् - "वृद्धौ च मातापितरौ, सती भार्यां सुतान् शिशून् ।
अप्यकर्मशतं कृत्वा, भर्त्तव्यान् मनुरब्रवीत्" ॥१॥[] विभवसम्पत्तौ चान्यानपि । अन्यत्राप्युक्तम् - "चत्वारि ते तात गृहे वसन्तु , श्रियाभिजुष्टस्य गृहस्थधर्मे ।
सखा दरिद्रो भगिनी व्यपत्या, जातिश्च वृद्धो विधनः कुलीनः" ॥१॥[ ] इति २०॥ तथा दीर्घकालभावित्वाद्दीर्घस्यार्थस्यानर्थस्य च दृष्टिः पर्यालोचनं सुविमृश्यकारित्वमित्यर्थः । अविमृश्यकारित्वे हि महादोषसम्भवात् । यत उक्तम् –
"सहसा विदधीत न, क्रियामविवेकः परमापदां पदम् ।
वृणुते हि विमृश्यकारिणं, गुणलुब्धाः स्वयमेव सम्पदः" ॥१॥[ ] २१ इति । तथा धर्मस्याभ्युदयनिःश्रेयसहेतोरिहैव शास्त्रे वक्तुं प्रस्तावितस्य कान्तकान्तासमेतयुवजनकिन्नरारब्धगीताकर्णनोदाहरणेन श्रुतिः श्रवणम् , तस्माच्च मन:खेदापनोदादि गुणः स्यात् । यदाह -
"क्लान्तमपोज्झति खेदं, तप्तं निर्वाति बुध्यते मूढम् ।। स्थिरतामेति व्याकुलमुपयुक्तसुभाषितं चेतः" ॥१॥[ ]
१. अप्रवृत्तिर्गा(वर्त्तनं गाढं) मनो० मु० ॥ २. कुलं वृत्तहीनस्य-इति धर्मबिन्दुवृत्तौ प० २७|| ३. क्लान्तमपोद्यति-मु० । क्लान्तमपोज्झति-इति धर्मबिन्दु[प० ५५] योगशास्त्र[प० १५३] वृत्त्योः ॥
D:\new/d-1.pm5\3rd proof