SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ३५ मार्गानुसारिगुणा:-श्लो० ५तः१४॥] [१५ विष्टब्धे गात्रभङ्गोऽत्र, रसशेषे तु जाड्यता"।[ ] द्रवगन्धित्वमिति द्रवस्य गूथस्य कुथिततक्रादेरिव गन्धो यस्यास्ति तत्तथा तद्भावस्तत्त्वमिति । "मलवातयोर्विगन्धो, विड्भेदो गात्रगौरवमरौच्यम् । अविशुद्धश्चोद्गारः षडजीर्णव्यक्तलिङ्गानि ॥१॥[ ] मूर्छा, प्रलापो, वमथुः, प्रसेकः, सदनं, भ्रमः । उपद्रवा भवन्त्येते, मरणं वाप्यजीर्णतः" ॥२॥[ ] प्रसेक इति अधिकनिष्ठीवनप्रवृत्तिः, सदनमिति अङ्गग्लानिरिति १६। तथा काले बुभुक्षोदयावसरलक्षणे सात्म्यात् । "पानाहारादयो यस्याऽ(स्य )विरुद्धाः प्रकृतेरपि । सुखित्वाय च कल्प्यन्ते, तत्सात्म्यमिति गीयते" ॥१॥[] इत्येवंलक्षणादलौल्यतश्च, चकारो गम्यः, आकाङ्क्षातिरेकादधिकभोजनलक्षणलौल्यत्यागात् भुक्तिर्भोजनम् , अयमभिप्राय:-आजन्म सात्म्येन भुक्तं विषमपि पथ्यं भवति । परम् असात्म्यमपि पथ्यं सेवेत न पुनः सात्म्यप्राप्तमप्यपथ्यम् । सर्वं बलवतः पथ्यमिति मन्वानः कालकूटं खादन्सुशिक्षितो हि विषतन्त्रज्ञो म्रियत एव कदाचिद्विषात् । सात्म्यमपि च लौल्यपरिहारेण यथाग्निबलमेव भुञ्जीत, अतिरिक्तभोजनं हि वमन-विरेचन-मरणादिना न साधु भवति । “यो हि मितं भुङ्क्ते स बहु भुङ्क्ते"[ ] अक्षुधितेन ह्यमृतमपि भुक्तं भवति विषम् , तथा क्षुत्कालातिक्रमादन्नद्वेषो देहसादश्च भवति, विध्यातेऽग्नौ किं नामेन्धनं कुर्यादिति १७। तथा वृत्तमनाचारपरिहार: सम्यगाचारपालनं च तत्र तिष्ठन्तीति वृत्तस्थाः । ज्ञानं हेयोपादेयवस्तुनिश्चयस्तेन वृद्धा महान्तः । वृतस्थाश्च ते ज्ञानवृद्धाश्च तेषामर्हा सेवाऽभ्युत्थानादिलक्षणा । गुणभाजो हि पुरुषाः सम्यक् सेव्यमाना नियमात् कल्पतरव इव सदुपदेशादिफलैः फलन्ति । यथोक्तम् – १. विष्टब्धे (च) गात्रभङ्गा, रसशेषे-मु० । C.L. प्रत्योः धर्मबिन्दुवृत्तावपि [५. १२ A] विष्टब्धे गात्रभङ्गोऽत्र रसशेषे-इति पाठः । विष्टब्धेर्गात्रभङ्गोऽत्र० P ॥ २. षडजीर्णे-मु० । C.L.P. योगशास्त्र[प० १५४] धर्मबिन्दु[प० ४३]वृत्त्योरपि-षडजीर्ण० इति ॥ ३. यस्यावि० P.L.C. । यस्यइति धर्मबिन्दु-योगशास्त्रवृत्त्योः [प० ११ B/प० १५४] यस्माद्विरुद्धा:-इति श्राद्धविधिप्रकरणवृत्तौ प० ३१० ॥ ४. सुखित्वायावलोक्यन्ते-इति धर्मबिन्दुवृत्तौ ॥ ५. कल्प्यन्ते-मु० । कल्पन्ते-इति योगशास्त्रवृत्तौ प० १५४ ॥ D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy