________________
१४]
[धर्मसंग्रहः-प्रथमाधिकारः "श्रीर्मङ्गलात् प्रभवति, प्रागल्भ्याच्च प्रवर्द्धते ।
दाक्ष्यात्तु कुरुते मूलं, संयमात् प्रतितिष्ठति" ॥१॥[ ] मूलमित्यनुबन्धनम् , प्रतितिष्ठतीति प्रतिष्ठां लभत इति १२ ।
तथा माता च पिता च मातापितरौ "आ द्वन्द्वे" [सिद्ध हे० ३-२-३९] इत्यात्त्वम् , मातुश्चाभ्यहितत्वात् पूर्वनिपातः । यन्मनुः -
"उपाध्याया दशाचार्य, आचार्याणां शतं पिता ।
सहस्रं तु पितुर्माता, गौरवेणातिरिच्यते" ॥ [ मनुस्मृतिः २।१४५ ] इति । माता जननी पिता जनकस्यारर्चनम् पूजनम् , त्रिसन्ध्यं प्रणामकरणेन परलोकहितानुष्ठाननियोजनेन सकलव्यापारेषु तदाज्ञया प्रवृत्त्या वर्णगन्धादिप्रधानस्य पुष्पफलादिवस्तुन उपढौकनेन तद्भोगे भोगेन चान्नादीनां तदीयव्रतविशेषोल्लङ्घनव्यापारादिलक्षणौचित्यातिक्रमवर्जनेनेति १३।
तथा सत् शोभन आचार इहपरलोकहितावहा प्रवृत्तिर्येषां ते सदाचारास्तैः सह सङ्गः सङ्गतिः । असत्सङ्गे हि सपदि शीलं विलीयेत । यदाह -
"यदि सत्संगनिरतो, भविष्यसि भविष्यसि ।
अथासज्जनगोष्ठीषु , पतिष्यसि पतिष्यसि" ॥१॥[ ] इति । तथा- “सङ्गः सर्वात्मना त्याज्यः, स चेत् त्यक्तुं न शक्यते ।
स सद्धिः सह कर्त्तव्यः, सन्तः सङ्गस्य भेषजम्" ॥२॥[ ] इति च १४ । तथा कृतस्य ज्ञता ज्ञानम् अनिह्नवः, एवं हि तस्य महान् कुशललाभो भवति, अत एव कृतोपकारं शिरसि भारमिव मन्यमानाः कदापि न विस्मरन्ति साधवस्तदुक्तम् -
"प्रथमवयसि पीतं तोयमल्पं स्मरन्तः, शिरसि निहितभारा नालिकेरा नराणाम् । उदकममृतकल्पं दद्युराजीवितान्तं,
न हि कृतमुपकारं साधवो विस्मरन्ति" ॥१॥[ ] इति १५ ॥९॥ तथा अजीर्णेऽजरणे पूर्वभोजनस्य, अथवाऽर्जीणे परिपाकमनागते पूर्वभोजनेऽर्द्धजीर्णे इत्यर्थः, अभोजनं भोजनत्यागः । अजीर्णभोजने हि सर्वरोगमूलस्य वृद्धिरेव कृता भवति । यदाह -"अजीर्णप्रभवा रोगाः"[ ] इति । तत्राजीर्णं चतुर्विधम् -
"आमं विदग्धं विष्टब्धं, रसशेषं तथा परम् । आमे तु द्रवगन्धित्वं विदग्धे धूमगन्धिता" ॥१॥[]
D:\new/d-1.pm53rd proof