________________
३५ मार्गानुसारिगुणा:-श्लो० ५तः१४॥]
[१३ तथा सर्वेषु जघन्योत्तममध्यमभेदेषु जन्तुषु अपवादोऽश्लाघा तं करोतीत्येवंशीलोऽपवादी तत्प्रतिषेधादनपवादी तस्य भावस्तत्त्वम् अपवादाभाषणमित्यर्थः । परापवादो हि बहुदोषः । यदाह वाचकचक्रवर्ती -
"परपरिभवपरिवादादात्मोत्कर्षाच्च बध्यते कर्म ।
नीचैर्गोत्रं प्रतिभवमनेकभवकोटिदुर्मोचम्" ॥१॥ [ प्रशम. का./१००] तदेवं सकलजनगोचरोऽप्यवर्णवादो न श्रेयान् , किं पुन: नृपामात्यपुरोहितादिषु बहुजनमान्येषु । नृपाद्यवर्णवादात्तु प्राणनाशादिरपि दोषः स्यात् । अत उक्तं - "नृपादिषु विशेषत" इति १० ॥८॥
तथा आयस्य वृद्ध्यादिप्रयुक्तधनधान्याधुपचयरूपस्योचितश्चतुर्भागादितया योग्यो वित्तस्य व्ययो भर्त्तव्यभरणस्वभोग-देवा-ऽतिथिपूजनादिषु प्रयोजनेषु विनियोजनम् । तथा च नीतिशास्त्रम् -
"पादमायान्निधिं कुर्यात् , पादं वित्ताय घट्टयेत् ।
धर्मोपभोगयोः पादं, पादं भर्त्तव्यपोषणे" ॥१॥[ ] केचित् त्वाहुः -
"आयादर्द्धं नियुञ्जीत, धर्मे समधिकं ततः ।
शेषेण शेषं कुर्वीत, यत्नतस्तुच्छमैहिकम्" ॥१॥[] आयानुचितो हि व्ययो रोग इव शरीरे(रं) कृशीकृत्य विभवसारमखिलव्यवहारासमर्थं पुरुषं करोति । पठ्यते च -
"आयव्ययमनालोच्य, यस्तु वैश्रमणायते ।
अचिरेणैव कालेन, सोऽत्र वै श्रमणायते" ॥११॥[ ] ११ इति । तथा विभवादीनां वित्तवयोऽवस्थानिवासस्थानादीनामनुसारत आनुरूप्येण वेषो वस्त्राभरणादिभोगः । लोकपरिहासाद्यनास्पदतया योग्यो वेषः कार्य इति भावः । यो हि सत्यप्याये कार्पण्याद् व्ययं न करोति, सत्यपि वित्ते कुचेलत्वादिधर्मा भवति, स लोकगर्हितो धर्मेऽप्यनधिकारी स्यात् । प्रसन्ननेपथ्यो हि पुमान् मङ्गलमूर्तिर्भवति मङ्गलाच्चश्रीसमुत्पत्तिः । यथोक्तम् –
१. खट्टये-इति योगशास्त्रवृत्तौ प० १५२ ॥ २. शरेरे-P.L. । शरीरं-इति योगशास्त्रवृत्तौ प० १५२ ॥ ३. श्रवणायते-इति धर्मबिन्दु[प०८ B] योगशास्त्र[प० १५२)वृत्त्योः ।। ४. सत्यपि (च) वित्ते-मु० । C.P.L. प्रतिषु योगशास्त्रवृत्तापि [प० १५१] च-नास्ति ।
D:\new/d-1.pm53rd proof