________________
३५ मार्गानुसारिगुणाः – श्लो० ५तः १४ ॥ ]
[ ११
दुरभिसन्धिः कामः। अविचार्य परस्यात्मनो वापायहेतुर (म) न्तर्बहिर्वा स्फुरणात्मा क्रोधः । दानार्हेषु स्वधनाप्रदानम् अकारणपरधनग्रहणं च लोभः । दुरभिनिवेशारोहो युक्तोक्ताग्रहणं वा मानः । कुलबलैश्वर्यविद्यारूपादिभिरहङ्कारकरणं परप्रधर्षनिबन्धनं वा मदः । निर्निमित्तमन्यस्य दुःखोत्पादनेन स्वस्य द्यूतपापद्धयनर्थसंश्रयेण वा मन:प्रमोदो हर्षः । ततोऽस्यारिषड्वर्गस्य त्यजनमनासेवनम् । एतेषां च त्यजनीयत्वमपायहेतुत्वात् । यदाह -
" दाण्डक्यो नाम भोजः कामात् ब्राह्मणकन्यामभिमन्यमानः सबन्धुराष्ट्रो विननाश, करालश्च वैदेहः १। क्रोधाज्जनमेजयो ब्राह्मणेषु विक्रान्तस्तालजङ्घश्च भृगुषु २ । लोभादैलश्चातुर्वर्ण्यमभ्याहारायमाणः, सौवीरश्चाजबिन्दुः ३ । मानाद्रावणः परदारान् प्रार्थयन्, दुर्योधनो राज्यादंशं च ४। मदाद्दम्भोद्भवो भूतावमानी, हैहयश्चार्जुन: ५। हर्षाद्वातापिरगस्त्यमभ्यासादयन् वृष्णिसङ्घश्च द्वैपायनम् " [ कौटिलीयमर्थशास्त्रम् १।६ ] इति ६|४ |
तथा इन्द्रियाणां श्रोत्रादीन्द्रियाणां जय अत्यन्ताऽऽसक्तिपरिहारेण स्वस्वविकारनिरोधः । इन्द्रियजयो हि पुरुषाणां परमसम्पदे भवति । यदाह -
'आपदां कथितः पन्था, इन्द्रियाणामसंयमः ।
तज्जयः सम्पदां मार्गो, येनेष्टं तेन गम्यताम् ॥१॥ [ ]
इन्द्रियाण्येव तत्सर्वं, यत्स्वर्गनरकावुभौ ।
निगृहीतानि सृष्टानि, स्वर्गाय नरकाय च" ॥२॥ [ ] इति ।
सर्वथेन्द्रियजयस्तु यतीनामेव, इह तु सामान्यतो गृहस्थधर्म एवाधिकृतस्तेनैवमुक्तं युक्तमिति ५। तथा उपप्लुतं स्वचक्रपरचक्रविक्षोभात् दुर्भिक्षमारीतिजनविरोधादेश्चास्वस्थीभूतं यत् स्थानं ग्रामनगरादि तस्य विवर्ज्जनं परिहरणम्, अत्यज्यमाने हि तस्मिन् धर्मार्थकामानां पूर्वार्जितानां विनाशेन नैव्यानां चानुपार्जनेनोभयलोकभ्रंश एव स्यात् ६ ॥६॥
तथा न विद्यन्ते नैकानि बहूनि निर्गमद्वाराणि निःसरणमार्गा यत्र यथा स्यात्तथा, गृहस्य अगारस्य, विनिवेशनं स्थापनम्, बहुषु हि निर्गमेषु अनुपलक्ष्यमाणनिर्गमप्रवेशानां दुष्टलोकानामापाते स्त्रीद्रविणादिविप्लवः स्यात् । [ अत्र चानेकद्वारतायाः प्रतिषेधेन
१. वापायहेतुरन्तर्बहिर्वा-P. L. ॥ २. मत्याहा' इति योगशास्त्रवृत्तौ । [ प० १५९] पाठः ॥ ३. राज्याद् भ्रंशं च ४ मदादम्भो० मु० । P. L. प्रत्योः कौटीलीयार्थशास्त्रे योगशास्त्रवृत्तौ [प० १५९] च राज्यादंशं च मदाद्दम्भो० इति ॥ ४. (तथा) मु० ॥ ५. निगृहीतविसृष्टानि-इति योगशास्त्रवृत्तौ प० १६०। ६. नवानां - इति धर्मबिन्दुवृत्तौ प० ७ A, योगशास्त्रवृत्तौ १५१ च ॥ ७. चानेकद्वारताया निषेध(धे )न विधि० मु० । चानेकद्वारतायाः प्रतिषेधेन विधिराक्षिप्यते - इति योगशास्त्रवृत्तौ प० १४९ ॥
D:\new/d-1.pm5\3rd proof